________________
१०६
न्याय - दीपिका
योऽग्निमान् 1 स स धूमवान्, यथा महानस इति 2, यत्र यत्र धूमो नास्ति तत्र तत्राऽग्निर्नास्ति, यथा महाह्रद इति च व्याप्यव्यापकयोर्वैपरीत्येन कथनम् ।
$ ६७. ननु किमिदं व्याप्यं व्यापकं नाम इति चेत्; उच्यते; साहचर्यनियमरूपां व्याप्तिक्रियां प्रति यत्कर्म तद्वयाप्यम्, विपूर्वादापेः कर्मणि यद्विधानाद्वयाप्यमिति सिद्धत्वात् । तत्तु व्याप्यं धूमादि । एतामेव व्याप्तिक्रियां प्रति यत्कर्तृ तद्वयापकम्, व्यापेः कर्तरि वुलि4 सति व्यापकमिति सिद्धेः । एवं सति धूम
१ 'यत्र यत्र धूमस्तत्र तत्र वह्निरिति साहचर्यनियमो व्याप्तिः - तर्कसं० पृ० ६१ । २ अत्रेदं बोध्यम् - साहचर्यनियमरूपां व्याप्तिमाश्रित्य व्याप्यव्यापकयोव्युत्पत्तिमुखेन लक्षणं प्रदर्शयता ग्रन्थकृता व्याप्तेरुभयधर्मत्वं प्रकटितम् । प्रमाणमीमांसाकृताऽपि तथैवोक्तम् — 'व्याप्तिः' इति यो व्याप्नोति यश्च व्याप्यते तयोरुभयोर्धर्मः । तत्र यदा व्यापकधर्मतया विवक्ष्यते तदा व्यापकस्य गम्यस्य व्याप्ये धर्मे सति, यत्र धर्मिणि व्याप्यमस्ति तत्र सर्वत्र भाव एव व्यापकस्य स्वगतो धर्मो व्याप्तिः । ततश्च व्याप्यभावापेक्षा व्याप्यस्यैव व्याप्तताप्रतीतिः । यदा तु व्याप्यधर्मतया व्याप्तिविवक्ष्यते तदा व्याप्यस्य वा गमकस्य तत्रैव व्यापके गम्ये सति यत्र धर्मिणि व्यापको ऽस्ति तत्रैव भावः, न तदभावेऽपि व्याप्तिरिति । - प्रमाणमी०पृ. ३८ । इत्थं च व्याप्तेर्व्याप्यव्यापकोभयधर्मत्वेऽपि व्याप्यस्यैव धूमादेर्गमकत्वम्, व्यापकस्यैव च बह्वयादेर्गम्यत्वम्, विशिष्टव्याप्तिसद्भावात् । व्याप्यस्य
1 आम सु प 'वह्निमान्' । अग्रेतनव्याप्तिस्थाग्निशब्दप्रयोगापेक्षया द प्रतेरेव 'अग्निमान्' पाठो मूले निक्षिप्तः । 2 द ' इत्यादि' । 3 म मुप 'एनामेव' । 4 मु ण्वौ', द ' ण्वणि' ।
COME