________________
३. परोक्ष-प्रकाशः
१०५ नयोर्भावरूपान्वयसम्प्रतिपत्तिसम्भवात् । ह्रदादिस्तु व्यतिरेकदृष्टान्तः', अत्र साध्यसाधनयोरभावरूपव्यतिरेकसम्प्रतिपत्तिसम्भवात्। दृष्टान्तौ चैतौ, दृष्टावन्तौ धमौं साध्यसाधनरूपौ नयत्र स दृष्टान्त इत्यर्थानुवृत्तेः ।
६६५. उक्तलक्षणस्य दृष्टान्तस्य यत्सम्यग्वचनं तदुदाहरणम् । - न च वचनमात्रमयं दृष्टान्त इति । किन्तु दृष्टान्तत्वेन वचनम् । । तद्यथा-यो यो धूमवानसावसावग्निमान्, यथा महानस इति । यत्राग्निर्नास्ति तत्र धूमोऽपि नास्ति, यथा महाह्रद इति च । एवंविधेनैव वचनेन दृष्टान्तस्य दृष्टान्तत्वेन प्रतिपादनसम्भवात् ।
[उदाहरणप्रसङ्गादुदाहरणाभासस्य कथनम्] ६६. उदाहरणलक्षणरहित उदाहरणवदवभासमान उदाहरणाभासः । उदाहरणलक्षणराहित्यं 1 द्वेधा सम्भवति, दृष्टान्तस्यासम्यग्वचनेनादृष्टान्तस्य सम्यग्वचनेन वा। तत्राद्यं यथा, यो यत्र हेतोः सपक्ष एवास्तित्वं ख्याप्यते । तद्यथा—यत्कृतकं तदनित्यं दृष्टम्, यथा घटादिरिति ।-न्यायप्र० पृ० १,२ । यत्र प्रयोज्यप्रयोजकभावेन साध्यसाधनधर्मयोरस्तित्वं ख्याप्यते स साधर्म्यदृष्टान्तः ।'न्यायकलिका पृ० ११ ।।
१ 'साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः'परीक्षा० ३-४६ । 'यत्र साध्याभावप्रयुक्तो हेत्वभावः ख्याप्यते स वैधर्म्यदृष्टान्तः'-न्यायकलिका पृ० ११ । “वैधयेणाऽपि, यत्र साध्याभावे हेतोरभाव एव कथ्यते । तद्यथा-यन्नित्यं तदकृतकं दृष्टम्, यथाऽऽकाशमिति ।-न्यायप्र० पृ० २ ।
1 म मु 'च' अधिकः ।