________________
न्याय-दीपिका
हरणं च सम्यग्दृष्टान्तवचनम् । कोऽयं दृष्टान्तो नाम इति चेत्, उच्यते; व्याप्तिसम्प्रतिपत्तिप्रदेशो दृष्टान्तः । व्याप्तिर्हि साध्ये वह्नयादौ सत्येव साधनं धूमादिरस्ति, असति तु नास्तीति साध्यसाधननियतसाहचर्य लक्षणा । एतामेव2 साध्यं विना साधनस्याभावादविनाभावमिति च व्यपदिशन्ति । तस्याः सम्प्रतिपत्तिर्नाम वादिप्रतिवादिनोर्बुद्धिसाम्यम्', सैषा यत्र सम्भवति स सम्प्रतिपत्तिप्रदेशो महानसादिर्हदादिश्च । तत्रैव धूमादौ सति नियमेनाऽग्यादिरस्ति, अग्न्याद्यभावे नियमेन धूमादिर्नास्तीति सम्प्रतिपत्तिसम्भवात्। तत्र महानसादिरन्वयदृष्टान्तः । अत्र साध्यसाध'मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तादिप्रयोगोऽप्युपयुज्यते'-जैनतर्कभाषा पृ.१६
१ 'सम्यग्दृष्टान्ताभिधानमुदाहरणम्'-न्यायसार पृ०१२ । 'दृष्टान्तवचनमुदाहरणम्'–न्यायकलिका पृ० ११ । २ यथा चोक्तम्
सम्बन्धो यत्र निर्जातः साध्यसाधनधर्मयोः । स दृष्टान्तः तदाभासाः साध्यादिविकलादयः ॥
-न्यायविनि० का० ३८० । ३ 'लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः'-न्यायसू० १-१-२५ । 'तत्र दृष्टान्तो नाम यत्र मूर्खाविदुषां बुद्धिसाम्यं'चरकसं० पृ० २६३ । 'दृष्टान्तवचनं हि यत्र पृथग्जनानामार्याणां च बुद्धिसाम्यं तदा वक्तब्यम् । दृष्टान्तो द्विविधः-सम्पूर्णदृष्टान्त आंशिकदृष्टान्तश्च'—उपायहृदय पृ० ५। ४ 'दृष्टान्तो द्वेधा, अन्वयव्यतिरेकभेदात्' 'साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्वयदृष्टान्तः'-परीक्षा० ३-४७,४८ । 'दृष्टान्तो द्विविध: साधयेण वैधhण च । तत्र साधhण तावत्,
'1 म मु नियतता साहचर्य' । २ प म मु 'एनामेव' ।