________________
३. परोक्ष-प्रकाशः
१०३ द्रव्यत्वहेतुः। कश्चित्पुनरनुमानबाधितविषयः, यथा-अपरिणामी शब्दः कृतकत्वादिति । अत्र परिणामी शब्द: प्रमेयत्वादित्यनुमातेन बाधितविषयत्वम् । कश्चिदागमबाधितविषयः, यथाप्रेत्यासुखप्रदो धर्मः पुरुषाश्रितत्वादधर्मवदिति । अत्र धर्मः सुखप्रद इत्यागमस्तेन बाधितविषयत्वं हेतोः । कश्चित्स्ववचनबाधितविषयः, यथा-मे माता बन्ध्या पुरुषसंयोगेऽप्यगर्भत्वात्प्रसिद्धबन्ध्यावत् । एवमादयोऽप्यकिञ्चित्करविशेषाः स्वयमूह्याः । तदेवं हेतुप्रसङ्गाद्धेत्वाभासा अवभासिताः ।
[उदाहरणस्य निरूपणम् ६६४. ननु व्युत्पन्न प्रति यद्यपि प्रतिज्ञाहेतुभ्यामेव पर्याप्तं तथापि बालबोधार्थ ।मुदाहरणादिकमप्यभ्युपगत2माचार्यैः । उदा
१ एतत्सर्वमभिप्रेत्य सूत्रमाहुः-'सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकिञ्चित्करः'-परीक्षा० ६-३५ । २ चिन्तनीयाः । ३ प्रकाशिता निरूपिता इत्यर्थः । ४ तथा हि-प्रतिपाद्यानुरोधेन प्रयोगोपगमात् । यथैव हि कस्यचित्प्रतिबोध्यस्यानुरोधेन साधनवाक्ये सन्धाऽभिधीयते (तथा) दृष्टान्तादिकमपि —पत्रपरी० पृ० ३ । कुमारनन्दिभट्टारकैरप्युक्तम्
प्रतिपाद्यानुरोधेन प्रयोगेषु पुनर्यथा । प्रतिज्ञा प्रोच्यते तज्जैस्तथोदाहरणादिकम् ॥ पत्रपरी. पृ. ३ उद्धृतम् ।
श्रीमाणिक्यनन्द्यप्याह-'बालव्युत्पत्त्यर्थं तत्त्रयोपगमे शास्त्र एवासौ, न वादेऽनुपयोगात् ।' परीक्षा० ३-४६ । श्रीयशोविजयसूरिणाऽप्युक्तम्
1 द 'बोधनार्थं । 2 म 'मभ्युपगन्तत्य', मु 'मभ्युपगत' ।