________________
१०२
न्याय-दीपिका गर्भस्थो मैत्रीतनयः श्यामो भवितुमर्हति मैत्रीतनयत्वादितरतत्तनयवदिति। अत्र मैत्रीतनयत्वं हेतुः पक्षीकृते गर्भस्थे वर्त्तते, सपने इतरतत्पुत्रे वर्त्तते, विपक्षे अश्यामे वतापीति1शङ्काया अनिवृत्तेः शङ्कितविपक्षवृत्तिकः । अपरमपि शङ्कितविपक्षवृत्तिकस्योदाहरणम्-अर्हन् सर्वज्ञो न भवितुमर्हति2 वक्तृत्वात् रथ्यापुरुषवदिति। वक्तृत्वस्य हि हेतोः पक्षीकृते अर्हति, सपक्षे रथ्यापुरुषे यथा वृत्तिरस्ति तथा विपक्षे सर्वज्ञेऽपि वृत्तिः सम्भाव्येत3, वक्तृत्वज्ञातृत्वयोरविरोधात् । यद्धि येन सह विरोधि तत्खलु तद्वति न वर्त्तते । न च वचन-ज्ञानयोर्लोके विरोधोऽस्ति, प्रत्युत ज्ञानवत एव वचनसौष्ठवं स्पष्ट दृष्टम् । ततो ज्ञानोत्कर्षवति सर्वज्ञे वचनोत्कर्षे काऽनुपपत्तिरिति ?
६३. 'अप्रयोजको4 हेतुरकिञ्चित्करः । स द्विविधः-सिद्धसाधनो बाधितविषयश्चेति। तत्राद्यो यथा, शब्दः श्रावणो भवितुमर्हति शब्दत्वादिति । अत्र श्रावणत्वस्य साध्यस्य शब्दनिष्ठत्वेन सिद्धत्वाद्धेतुरकिचित्करः। बाधितविषयस्त्वनेकधा। कश्चित्प्रत्यक्षबाधितविषयः, यथा-अनुष्णोऽग्निद्रव्यत्वादिति । अत्र द्रव्यत्वं हेतुस्तस्य विषयत्वेनाभिमतमनुष्णत्वमुष्णत्वग्राहकेण स्पार्शनप्रत्यक्षेण बाधितम् । ततःकिञ्चिदपि कर्तुमशक्यत्वादकिंचित्करो
१ ननु किं नामाप्रयोजकत्वमिति चेत्, अन्यथासिद्धत्वमप्रयोजकत्वम्, साध्यसिद्धि प्रत्यसमर्थत्वनित्यर्थः ।
1 म प मु प्रतिषु 'वर्त्तते नापीति' पाठः। 2 प म मु 'न भवति' । 3 म मु 'सम्भाव्यते' प 'सम्भाव्येति' पाठः। 4 द म 'अथाप्रयोजको' । 5 द प 'स्पर्शनेन प्रत्यक्षेण' ।