SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ३. परोक्ष-प्रकाशः ६१. साध्यविपरीतव्याप्तो हेतु । विरुद्धः । यथाऽपरिणामी शब्दः कृतकत्वादिति । कृतकत्वं ह्यपरिणामित्वविरोधिना परिणामित्वेन व्याप्तम् । १०१ ६२. पक्षसपक्षविपक्षवृत्तिरनैकान्तिकः । स द्विविध:निश्चितविपक्षवृत्तिकः शङ्कितविपक्षवृत्तिकश्च । तत्राद्यो यथा, धूमवानयं प्रदेशोऽग्निमत्त्वादिति । अत्राग्निमत्त्वं पक्षीकृते सन्दिह्यमानधूमे पुरोवर्तिनि प्रदेशे वर्त्तते, सपक्षे धूमवति महानसे 2 वर्त्तते, विपक्षे घूमरहितत्वेन निश्चितेऽङ्गारावस्थापन्नाग्निमति प्रदेशे वर्त्तते इति निश्चयान्निश्चित विपक्षवृत्तिकः । द्वितीयो यथा, मुग्धबुद्धि प्रत्यग्निरत्र धूमात्' इति । ' तस्य वाष्पादिभावेन भूतसङ्घाते सन्देहात् ' - परीक्षा० ६-२६ । को 'साध्याभावव्याप्तो हेतुविरुद्धः । यथा - शब्दो नित्यः कृतकत्वादिति । कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम्' – तर्कसं० पृ० ११२ । 'विपरीत निश्चिताविनाभावो विरुद्धोऽपरिणामी शब्दः कृतकत्वात्'– परीक्षा० ६ २६ । २ यः स्वोत्पत्तौ परव्यापारमपेक्षते स कृतक उच्यते । शब्दोऽपि ताल्वादिपरिस्पन्दव्यापारमपेक्ष्य जन्यते । अतस्तस्य कृतकत्वं सुव्यक्तमेव । यच्च कृतकं तत्परिणामि दृष्टं यथा घटपटादि । तथा चात्र कृतकत्वं साध्यभूतापरिणामित्वविपरीतेन परिणामित्वेन सह व्याप्तत्वाद्विरुद्धमिति भावः । ३ 'विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः - परीक्षा० ६ ३० । ४ उदाहरणान्तरम् - निश्चितवृत्तिरनित्यः शब्दः प्रमेयत्वात् घटवत्' - परीक्षा० ६ ३१ । 'आकाशे नित्येऽप्यस्य निश्चयात्' – परीक्षा ६-३२ । 1 प म मु ' हेतु:' नास्ति । 2 द 'च' नास्ति ।
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy