________________
१००
न्याय - दीपिका
रहिता हेतुवदवभासमाना हेत्वाभासाः । ते चतुविधा: - प्रसिद्धविरुद्धानैकान्तिकाकिञ्चित्करभेदात् ' । तत्रानिश्चयपथप्राप्तोसिद्धः । श्रनिश्चयपथप्राप्तिश्च हेतोः स्वरूपाभावनिश्चयात स्वरूपसन्देहाच्च । स्वरूपाभावनिश्चये स्वरूपासिद्ध:, स्वरूप सन्देहे सन्दिग्धासिद्धः । तत्राद्यो यथा - परिणामी शब्दः चाक्षुषत्वादिति । शब्दस्य हि श्रावणत्वाच्चाक्षुषत्वाभावो निश्चित इति स्वरूपा - सिद्धश्चाक्षुषत्वहेतुः । द्वितीयो यथा धूमवाष्पादिविवेकानिश्चये कश्चिदाह - "अग्निमानयं प्रदेशो धूमवत्त्वात्" इति । अत्र हि धूमवत्त्वं हेतुः सन्दिग्धासिद्ध:, तत्स्वरूपे सन्देहात् ।
I
१ तदुक्तं श्रीमद्भट्टाकलङ्क देवैः -
अन्यथानुपपन्नत्वरहिता ये विडम्बिता: । हेतुत्वेन परस्तेषां हेत्वाभासत्वमीक्ष्यते ॥ न्यायवि०
० का० ३४३ ।.
२ तथा चोक्तम्- 'हेत्वाभासा असिद्धविरुद्धानैकान्तिका किञ्चित्कराः ।' - परीक्षा० ६ - २१ । एतेषां संक्षेपलक्षणानि -
स विरुद्धोऽन्यथाभावादसिद्धः सर्वथाऽत्ययात् ॥ व्यभिचारी विपक्षेsपि सिद्धेऽकिञ्चित्करोऽखिलः । प्रमाणसं० का० ४८, ४६
३ हेत्वाभासानां चतुर्भेदेषु प्रथमोद्दिष्टमसिद्ध लक्षयति तत्रेति । ४ यदुक्तं श्रीमाणिक्यनन्दिभिः - 'प्रविद्यमान सत्ताक : ( स्वरूपासिद्धः ) परिणामी शब्दश्चाक्षुषत्वात् । -- परीक्षा० ६ २३ । ननु कुतोऽस्य चाक्षुषत्वहेतोरसिद्धत्वमिति चेत्तदप्याह 'स्वरूपेणासत्वात्' - परीक्षा ६-२४ इति । ५ उक्तञ्च परीक्षामुखकृता – 'अविद्यमाननिश्चयो ( सन्दिग्धासिद्धः )