________________
६६
३. परोक्ष-प्रकाशः ५८. 'प्रतिषेधरूपोऽपि। हेतुर्द्विविधः-'विधिसाधकः प्रतिषेधसाधकश्चेति। तत्राद्यो यथा, अस्त्यत्र प्राणिनि सम्यक्त्वं विपरीताभिनिवेशाभावात् । अत्र विपरीताभिनिवेशाभावः प्रतिषेधरूपः सम्यक्त्वसद्भावं साधयतीति प्रतिषेधरूपो विधिसाधको हेतुः।
५९. 'द्वितीयो यथा, नास्त्यत्र धूमोऽग्न्यनुपलब्धेरित्य बाग्न्यभावः प्रतिषेधरूपो धूमाभावं प्रतिषेधरूपमेव साधयतीति प्रतिषेधरूपः प्रतिषेधसाधको हेतुः । तदेवं विधिप्रतिषेधरूपतया द्विविधस्य हेतोः कतिचिदवान्तरभेदा उदाहृताः । विस्तरतस्तु परीक्षामुखतः प्रतिपत्तव्या:2 । इत्थमुक्तलक्षणा एव3 हेतवः साध्यं गमयन्ति । "नान्ये, हेत्वाभासत्वात् ।
[हेत्वाभासानां चातुर्विध्यमुक्त्वा तेषां निरूपणम्] ६०. "के ते हेत्वाभासा: इति चेत् ; उच्यते; हेतुलक्षण
१ हेतोद्वितीयभेदं प्रदर्शयति प्रतिषेधेति । २ विधि सद्भावं साधयतीति विधिसाधकः । ३ प्रतिषेधमभावं साधयतीति प्रतिषेधसाधकः । ४ सम्यक्त्वस्य विपरीतं मिथ्यात्वं तस्याभिनिवेशो मिथ्र्यकान्ताग्रहस्तदसत्त्वात् । मिथ्यात्वाभिनिवेशाभावो हि नियमेन जीवे सम्यक्त्वास्तित्वं साधयति, इति भावः । ५ प्रतिषेधसाधको हेतुः । ६ अस्मिन्प्रदेशे । ७ कतिपयाः प्रभेदाः । ८ उदाहरणद्वारा प्रदर्शिताः। ६ अत्र परीक्षामुखस्य ३-५६ सूत्रमारभ्य ३-६२ पर्यन्तसूत्राणि द्रष्टव्यानि। १० अन्यथानुपपन्नत्वविशिष्टाः । ११ अन्यथानुपपत्तिविरहिताः । १२ हेत्वाभासान् प्रदर्शयति के ते, इति ।
1 म 'प्रतिषेधरूपः' । 2 द प्रतौ 'प्रतिज्ञातव्याः' इति पाठ: 3 मप आ मु प्रतिषु ‘एव' पाठो नास्ति ।