SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ £5 न्याय - दीपिका $ ५५ एतेषूदाहरणेषु भावरूपानेवाग्न्यादीन् साधयन्तो धूमादयो हेतवो भावरूपा एवेति विधिसाधक - विधिरूपः । एत 1 एवा विरुद्धोपलब्धय इत्युच्यन्ते । एवं विधिरूपस्य हेतोर्विधिसाधकाख्य ग्राद्यो भेद उदाहृतः । $ ५६. द्वितीयस्तु निषेधसाधकाख्यः, विरुद्धोपलब्धिरिति तस्यैव नामान्तरम् । स यथा - नास्य मिथ्यात्वम्, आस्तिक्यान्यथानुपपत्तेरित्यत्रास्तिक्यम् । प्रास्तिक्यं हि सर्वज्ञवीतरागप्रणीतजीवादितत्त्वार्थ रुचिलक्षणम् । तन्मिथ्यात्ववतो न सम्भवतीति मिथ्यात्वाभावं साधयति । यथा वा, नास्ति वस्तुनि सर्वथैकान्तः, अनेकान्तात्मकत्वान्यथानुपपत्तेरित्यत्राने कान्तात्मकत्वम् 2 । अनेकान्तात्मकत्वं हि वस्तुन्यबाधित प्रतीतिविषयत्वेन प्रतिभासमानं सौगतादिपरिकल्पित सर्वथैकान्ताभावं साधयत्येव । $ ५७. ननु किमिदमनेकान्तात्मकत्वं यद्बलाद्वस्तुनि सर्वथैकान्ताभावः साध्यते इति चेत्; उच्यते ; सर्वस्मिन्नपि जीवादिवस्तुनि भावाभावरूपत्वमेकानेकरूपत्वं नित्यानित्यरूपत्वमित्येवमादिकमनेकान्तात्मकत्वम् । एवं विधिरूपो 'हेतुर्दर्शितः । १ साध्यं साधनं चोभयमपि सद्भावात्मकम् । अत एवोल्लिखिता हेतवो विधिसाधक - विधिरूपा इति कथ्यते । २ ग्रविरुद्धेन साध्येन सहोपलभ्यन्त इत्यविरुद्धोपलब्धयः । ३ एकान्तवादी शङ्कते नन्विति । ४ हेतोर्मूलभेदयोविधि- प्रतिषेधरूपयोविधिरूपः प्रथमभेदः । ५ व्याख्यातः । 1 द प 'अत पाठान्तरम् । 2 द 'हेतुः' इत्यधिको पाठः ।
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy