SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ३. परोक्ष-प्रकाशः सम्भवन् वह्निः सुप्रतीतः । अत एव वह्निर्न धूमं गमयतीति चेत; तन्न; उन्मीलितशक्तिकस्य कारणस्य कार्याव्यभिचारित्वेन कार्यं प्रति हेतुत्वाविरोधात् । ५४. कश्चिद्विशेषरूपः, यथा-वृक्षोऽयं शिशपात्वान्यथानुपपत्तेरित्यत्र [शिंशपा] । शिशपा हि वृक्षविशेषः सामान्यभूतं वृक्षं गमयति । न हि वृक्षाभावे वृक्षविशेषो घटत इति । कश्चित्पूर्वचरः, यथा-उदेष्यति शकटं कृत्तिकोदयान्यथानुपपत्तेरित्यत्र कृत्तिकोदयः1 । कृत्तिकोदयान्तरं मुहूर्तान्ते नियमेन शकटोदयो जायत इति कृत्तिकोदय: पूर्वचरो हेतुः शकटोदयं गमयति । कश्चिदुत्तरचरः, यथा-उदगाद्भरणिः प्राक्, कृत्तिकोदयादित्यत्र कृत्तिकोदयः । कृत्तिकोदयो हि भरण्युदयोत्तरचरस्तं गमयति । कश्चित्सहचरः, यथा-मातुलिङ्गं रूपवद्भवितुमर्हति रसवत्त्वान्यथानुपपत्तेरित्यत्र रसः । रसो हि नियमेन रूपसहचरितस्तदभावेऽनुपपद्यमानस्तद् गमयति । १-२-१२। 'रसादेकसामग्रयनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किंचित् कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्ध-कारणान्तरावैकल्ये।' –परीक्षामु० ३-६० । किञ्च, अस्त्यत्र छाया छत्रादित्यादौ छत्रादेविशिष्टकारणस्य छायादिकार्यानुमापकत्वेन हेतुत्वमवश्यं स्वीकार्यमस्ति । ततो न कारणहेतोरपह्नवः कर्तुं शक्य इति भावः । १ प्रकटितसामर्थ्यस्य । २ विशेषो व्याप्यः । 1 द 'कृत्तिकोदयः' नास्ति ।
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy