SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ न्याय-दीपिका 'विशिष्टमेघान्यथानुपपत्तेः' इत्यत्र मेघविशेषः । मेघविशेषो हि वर्षस्य कारणं स्वकार्यभूतं वर्षं गमयति । ६५३ 'ननु कार्य कारणानुमापकमस्तु, कारणाभावे कार्यस्यानुपपत्तेः । कारणं तु कार्याभावेऽपि सम्भवति, यथा-धूमाभावेऽपि १ यथा चोक्तम्'गम्भीरगजितारम्भनिभिन्नगिरिगह्वराः । त्वङ्गत्तडिल्लतासङ्गपिसङ्गोत्तुङ्गविग्रहाः ॥'-न्यायम० पृ.१२६ । 'रोलम्बगवलव्यालतमालमलिनत्विषः (तमसन्निभाः)। वृष्टि व्यभिचरन्तीह नैवंप्राया. पयोमुचः ॥-षड्दर्श० २० । ईदृशाः खलु विशिष्टमेघा वृष्टि गमयन्त्येवेति भावः ।। २ सौगतः शङ्कते नन्विति, तेषामयमाशयः-नावश्यं कारणानि कार्यवन्ति भवन्तीति नियमः, अतश्च कारणं न कार्यस्य गमकं व्यभिचारात्, कार्य तु कारणसत्त्वे एव भवति तदभावे च न भवति, अतस्तत्तु गमकमिष्टम् ; तन्न युक्तम् 'यथैव हि किञ्चित् कारणमुद्दिश्य किञ्चत्कार्यम्, तथैव किञ्चित् कार्यमुद्दिश्य किञ्चित् कारणम् । यद्वदेवाजनकं प्रति न कार्यत्वम्, तद्वदेवाजन्यं प्रति न कारणत्वमिति नानयोः कश्चिद्विशेषः । अपि च रसादेकसामग्रयनुमानेन रूपानुमान मिच्छता न्यायवादिनेष्टमेव कारणस्य हेतुत्वम् । यदाह एकसामग्रयधीनस्य रूपादे रसतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥ (प्रमाणवा० १-१०) न च वयमपि यस्य कस्यचित् कारणस्य हेतुत्वं ब्रूमः । अपि तु यस्य न मन्त्रादिना शक्तिप्रतिबन्धो न वा कारणान्तरवैकल्यम् ।'—प्रमाणमी०
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy