________________
३. परोक्ष-प्रकाशः
$ ५१. यौगं1 प्रति तु
अन्यथानुपपन्नत्वं यत्र किं तत्र पञ्चभिः । नान्यथानुपपन्नत्वं यत्र किं तत्र पञ्चभिः ।।
[प्रमाणपरी० पृ० ७२] इति । हेतुं विधिप्रतिषेधरूपाभ्यां द्विधा विभज्य तयोरवान्तर भेदानां कथनम्]
५२. 'सोऽयमन्यथानुपपत्तिनिश्चयैकलक्षणो हेतुः संक्षेपतो द्विविधः-'विधिरूपः, प्रतिषेधरूपश्चेति । विधिरूपोऽपि द्विविधःविधिसाधकः प्रतिषेधसाधकश्चेति । तत्रा द्योऽनेकधा । तद्यथाकश्चित्कार्यरूपः, यथा-'पर्वतोऽयमग्निमान् धूमवत्त्वान्यथानुपपत्तेः' इत्यत्र धूमः । धूमो ह्यग्नेः कार्यभूतस्तदभावे ऽनुपपद्यमानोऽग्नि गमयति । कश्चित्कारणरूपः, यथा-वृष्टिर्भविष्यति तत्त्वसंग्रहकृता पात्रस्वामिकर्तृ का निर्दिष्टा । सिद्धिविनिश्चयटीकाकृता तु भगवत्सीमन्धरस्वामिनः प्रदर्शिता । न्यायविनिश्चयविवरणे आराधनाकथाकोशे च भगवत्सीमन्धरस्वामिसकाशादानीय पद्मावतीदेव्या पात्रस्वामिने समर्पितेति समुल्लिखतम् । समुद्धृता च निम्नग्रन्थेषु
तत्त्वसं० पृ० ४०६, न्यायविनि० का० ३२३, सिद्धिविनि० टी० २, पृ० ३७२, धवला पु. १३, पृ. २४६, तत्त्वार्थश्लो० पृ० २०३, २०५ । प्रमाणप० पृ० ७२, जैनतर्कवात्तिक पृ० १३५, सूत्रकृताङ्गटी० पृ० २२५, प्रमाणमी० पृ० ४०, सन्मतिटी० पृ० ५६०, स्या० रत्ना० पृ० ५२१, इत्थं चेयं कारिका जैनपरम्परायां सर्वत्र प्रतिष्ठिता।
१ हेतुलक्षणं विस्तरतः प्रदर्याधुना तत्प्रकारनिरूपणार्यमाह सोऽयमिति। २ सद्भावात्मकः । ३ विधिसाधकः। ४ अग्न्यभावे । ५ अनुपपन्नः ।
I मुद्रितप्रतिषु ‘यौगान्' इति पाठः ।