________________
६४
न्याय - दीपिका
गर्भस्थे तत्सद्भावात् । सपक्षेषु सम्प्रतिपन्नपुत्रेषु 1 तस्य विद्यमान - त्वात्सपक्षे सत्त्वमप्यस्ति । विपक्षेभ्यः पुनरश्यामेभ्यश्चैत्रपुत्रेभ्यो व्यावर्त्तमानत्वाद्विपक्षाद्वयावृत्तिरस्ति । विषयबाधाभावादबाधितविषयत्वमस्ति । न हि गर्भस्थस्य श्यामत्वं केनचिद् बाध्यते । असत्प्रतिपक्षत्वमप्यस्ति, प्रतिकूलसमबलप्रमाणाभावात् । इति पाञ्चरूप्यसम्पत्तिः। त्रैरूप्यं तु 'सहस्रशतन्यायेन 2 सुतरां सिद्धमेव ।
[ अन्यथानुपपन्नत्वमेव हेतोर्लक्षणमित्युपपादनम् ] $ ५०. ननु च न पाञ्चरूप्यमात्रं हेतोर्लक्षणम् । किं तर्हि ? 'अन्यथानुपपत्त्युपलक्षितमेव लक्षणमिति चेत्; तर्हि "सैवैका तल्लक्षणमस्तु4 'तदभावे पाञ्चरूप्यसम्पत्तावपि मैत्रीतनयत्वादौ न हेतुत्वम् । तत्सद्भावे पाञ्चरूप्याभावेऽपि कृत्तिकोदयादी हेतुत्वमिति । तदुक्तम् —
अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥ ] इति बौद्धान् प्रति ।
[
१ गौरेभ्यः । २ विषयः साध्यम्, तच्चात्र श्यामत्वरूपम्, तस्य प्रत्यक्षादिना बाधाभावात् । ३ यथा सहस्र शतमायात्येव तथा मैत्रीतनयत्वे - पाञ्चरूप्यप्रदर्शिते त्रैरूप्यं प्रदर्शितमेवेति बोध्यम् । ४ अन्यथानुपपत्तिविशि ष्टमेव पाञ्चरूप्यं हेतोर्लक्षणमित्यर्थः । ५ अन्यथानुपपत्तिरेवान्यनिरपेक्षा ६ कारणमाह तदभावे इति, तथा च हेतोः स्वसाध्यगमकत्वे अन्यथानुपपन्नत्वमेव प्रयोजकम्, न त्रैरूप्यं न च पाञ्चरूप्यमिति ध्येयम् । ७ कारिकेयं
1 मु 'सम्प्रतिपन्नेषु' | 2 आ मु 'सहस्र शतन्यायेन' | 3 मु ' ग्रन्यथानुपपत्त्युपलक्षणमिति पाठः । 4 प 'सैवैकान्ताल्लक्षणनस्तु' पाठः । भु 'सैवैकान्तलक्षणमस्तु' इति पाठः ।