________________
३. परोक्ष-प्रकाशः
६३ ४६. यद्यपि सम्प्रतिपन्नमैत्रीपुत्रेषु श्यामत्वमैत्रीतनयत्वयोः सहभावोऽस्ति तथापि नासौ नियतः । मैत्रीतनयत्वमस्तु श्यामत्वं भाऽस्तु इत्येवंरूपे विपक्षे बाधकाभावात् । विपक्षे बाधकप्रमाणबलात्खलु हेतुसाध्ययोव्याप्तिनिश्चयः1 । व्याप्तिनिश्चयतः सहभावः क्रमभावो वा । “सहक्रमभावनियमोऽविनाभावः” [परीक्षा ३-१६] इति वचनात् । 'विवादाध्यासितो वृक्षो भवितुमर्हति शिंशपात्वात्। या या शिशपा स स वृक्षः, यथा सम्प्रतिपन्न इति। अत्र हि हेतुरस्तु साध्यं मा भूदित्येतस्मिन् विपक्षे सामान्य-विशेषभावभङ्गप्रसङ्गो बाधकः। वृक्षत्वं हि सामान्यं शिशपात्वंतद्विशेषः। न हि विशेषः सामान्याभावे सम्भवति। न चैवं मैत्रीतनयत्वमस्तु श्यामत्वं माऽस्तु इत्युक्ते किञ्चिद्बाधकमस्ति । तस्मान्मैत्रीतनयत्वं हेत्वाभास एव । तस्य2 तावत्पक्षधर्मत्वमस्ति, पक्षीकृते
१ नियमेन वर्तमानः । २ व्यभिचारशङ्कायाम् । ३ तन्निवर्त्तकानुकूलतर्काभावात् । अत्रायम्भावः ‘हेतुरस्तु साध्यं माऽस्तु' इत्येवं व्यभिचारशङ्कायां सत्यां यदि तन्निवर्तकं 'यदि साध्यं न स्यात्तर्हि हेतुरपि न स्यात् वह्नयभावे धूमाभाववत्' इत्येवंभूतं विपक्षबाधकं प्रमाणमस्ति तदाऽसौ हेतु: सद्धेतुर्भवति, विपक्षबाधकप्रमाणाभावे च न सहेतुः, तथा च 'मैत्रीतनयत्वमस्तु श्यामत्वं माऽस्तु' इत्यत्र श्यामत्वाभावे मैत्रीतनयत्वस्यासत्त्वापादने न खलु 'यदि श्यामत्वं न स्यात्तहि मैत्रीतनयत्वमपि न स्यात्' इत्येवंभूतं किञ्चिद्विपक्षबाधकं वर्त्तते, यतः गर्भस्थे मैत्रीतनये मैत्रीतनयत्वस्य सत्त्वेऽपि श्यामत्वस्य सन्दिग्धत्वादिति । ४ पूर्वोक्तमेव स्पष्टयति विवादाध्यासितेत्यादिना।
1 द 'नियमः । 2 द 'तत्र तावत्प' पाठः ।