________________
न्याय-दीपिका
पाञ्चरूप्ययोबौद्ध-यौगाभिमतयोरतिव्याप्तेरलक्षणत्वम् । तथा हि-परिदृश्यमानेषु पञ्चसु मैत्रीपुत्रेषु श्यामतामुपलभ्य तद्गर्भगतमपि। विवादापन्नं पक्षीकृत्य श्यामत्वसाधनाय प्रयुक्तो मैत्रीतनयत्वाख्यो हेतुराभास इति तावत्प्रसिद्धम्, अश्यामत्वस्यापि तत्र सम्भावितत्वात्। तत्सम्भावना च श्यामत्वं प्रति मैत्रीतनयत्वस्यान्यथानुपपत्त्यभावात् । तदभावाश्च सहक्रमभावनियमाभावात् ।
$ ४८. यस्य हि2 धर्मस्य येन धर्मेण सहभावनियमः स तं गमयति । यथा शिशपात्वस्य वृक्षत्वेन सहभावनियमोऽस्तीति शिशपात्वं हेतुर्वृक्षत्वं गमयति । यस्य च3 क्रमभावनियमः स तं गमयति । यथा धूमस्याग्न्यनन्तरभावनियमोऽस्तीति धूमोऽग्नि गमयति । न हि मैत्रीतनयत्वस्य हेतुत्वाभिमतस्य श्यामत्वेन साध्यत्वाभिमतेन सहभावः क्रमभावो वा 4नियमोऽस्ति, येन मैत्रीतनयत्वं हेतु: श्यामत्वं साध्यं गमयेत् ।
१ लक्षणाभासत्वम् । २ मैत्रीगर्भस्थम् । ३ असद्धेतुः । ४ गर्भस्थे मैत्रीतनये । ५ न हि श्यामत्वेन सह मैत्रीतनयत्वस्यान्यथानुपपत्तिरस्ति, गौरत्वेनापि तस्य वृत्तिसम्भवात् । ६ अन्यथानुपपत्त्यभावः, अन्यथानुपपत्तिरविनाभावः । स च द्विविधः-सहभावनियमः क्रमभावनियमश्च । तदेतद्द्विविधस्याप्यत्राभावादिति भावः । ७ ननु मैत्रीतनयत्वस्य श्यामत्वेन सहभावः क्रमभावो वा नियमोऽस्तु, तथा च मैत्रीतनयत्वं श्यामत्वं गमयेदेव इत्याशङ्कायामाह नहीत्यादि । ___1 द प प्रा 'तद्भार्यागर्भगतमपि' पाठः । 2 द 'हि' नास्ति । 3 श्रा म 'यस्य यत्क्रमभावनियमः' मु 'यस्य येन क्रम...'। 4 द ा प म प्रतिषु 'नियतो' पाठः।