________________
३. परोक्ष-प्रकाशः णम्, “साध्याविनाभावित्वेन निश्चितो हेतुः” [परीक्षा० ३-१५] इति वचनात् । न चैतदसिद्धस्यास्ति । शब्दानित्यत्वसाधनायाभिप्रेतस्य चाक्षुषत्वादेः स्वरूपस्यैवाभावे कुतोऽन्यथानुपपत्तिमत्त्वेन निश्चयपथप्राप्तिः ? ततः साध्यान्यथानुपपत्तिमत्त्वेन निश्चयपथप्राप्त्यभावादेवास्य हेत्वाभासत्वम्, न तु पक्षधर्मत्वाभावात्, 'अपक्षधर्मस्यापि कृत्तिकोदयादेर्यथोक्त लक्षणसम्पत्तेरेव सद्धेतुत्वप्रतिपादनात् । विरुद्धादेस्तदभावः' स्पष्ट एव । न हि विरुद्धस्य व्यभिचारिणो बाधितविषयस्य सत्प्रतिपक्षस्य वा1ऽन्यथानुपपत्तिमत्त्वेन निश्चयपथप्राप्तिरस्ति । तस्माद्यस्यान्यथानुपपत्तिमत्त्वे सति योग्यदेशनिश्चयपथप्राप्तिरस्तीति स एव सद्धेतुरपरस्तदाभास इति स्थितम् ।।
४७. किंच', 'गर्भस्थो मैत्रीतनयः2 श्यामो भवितुर्महति, मैत्रीतनयत्वात्, सम्प्रतिपन्नमैत्रीतनयवत्' इत्यत्रापि त्रैरूप्य
१ साध्यान्यथानुपपत्तिमत्त्वे सति निश्चयपथप्राप्तत्वम् । २ ‘शब्दोऽनित्यश्चाक्षुषत्वात्' इत्यत्र शब्देऽनित्यत्वसाधनाय प्रयुक्तस्य चाक्षुषत्वहेतोः स्वरूपत्वमेव नास्ति । यतो हि शब्दस्य श्रोत्रग्राह्यत्वम्, न तु चाक्षुषत्वम् । अतो न चाक्षुषत्वादेरन्यथानुपपन्नत्वम् । तदभावादेव चास्यासिद्धत्वमिति ज्ञेयम् । ३ पक्षधर्मरहितस्य । ४ साध्यान्यथानुपपत्तिमत्त्वे सति निश्चयपथप्राप्तत्वलक्षणसद्भावादेव। ५ साध्यान्यथानुपपत्तिमत्त्वे सति निश्चयपथप्राप्तत्वाभावः । ६ त्ररूप्यपाञ्चरूप्ययोरतिव्याप्तिप्रदर्शनार्थमाह किञ्चेत्यादि ।
1 द प्रतौ 'वा' स्थाने 'च' पाठः । 2 या द प्रत्योः सर्वत्र 'मैत्र' स्थाने 'मैत्री' शब्दः प्रयुक्तः । जैनतर्कभाषायां (पृ० १८) स्त्रीलिङ्गवाचको 'मित्रा' शब्दः प्रयुक्तः ।