________________
न्याय-दीपिका ४४. पक्षवृत्तिविपक्षव्यावृत्तः सपक्षरहितो हेतु: केवलव्यतिरेकी । यथा-'जीवच्छरीरं सात्मकं भवितुर्महति प्राणादिमत्त्वात्, यद्यत्सात्मकं न भवति तत्तत्प्राणादिमन्न भवति यथा लोष्ठम् इति । अत्र जीवच्छरीरं पक्षः, सात्मकत्वं साध्यम्, प्राणादिमत्त्वं हेतुः, लोष्ठादिय॑तिरेकदृष्टान्तः । प्राणादिमत्त्वं हेतु: पक्षीकृते जीवच्छरीरे वर्तते। विपक्षाच्च लोष्ठादेावर्त्तते । सपक्षः पुनरत्र नास्त्येव, सर्वस्यापि 1पक्षविपक्षान्तर्भावादिति । शेषं पूर्ववत् । ___६४५. एवमेतेषां त्रयाणां हेतूनां मध्येऽन्वयव्यतिरेकिण एव पाञ्चरूप्यम्, केवलान्वयिनो विपक्षव्या2वृत्तेरभावात्, केवलव्यतिरेकिणः सपक्षे3 सत्त्वाभावाच्च नैयायिकमतानुसारेणैव पाञ्चरूप्यव्यभिचारः । अन्यथानुपपत्तेस्तु सर्वहेतुव्याप्तत्वाद्धेतुलक्षणत्वमुचितम्, 'तदभावे हेतोः स्वसाध्यगमकत्वाघटनात् ।
६४६. यदुक्तम्-'असिद्धादिदषपञ्चकनिवारणाय पञ्चरूपाणि' [ ] इति, तन्न; अन्यथानुपपत्तिमत्त्वेन निश्चितत्वस्यैवास्मदभिमतलक्षणस्य तन्निवारकत्वसिद्धेः । तथा हिसाध्यान्यथानुपपत्तिमत्त्वे सति निश्चयपथप्राप्तत्वं खलु हेतोर्लक्ष
१ अत्र व्यभिचारपदेनाव्याप्तिदोषो विवक्षितः । २ अन्यथानुपपत्तेरभावे । ३ असिद्धादिदोषव्यवच्छेदकत्वप्रसिद्धेः । ४ ननु कथमेकेनान्यथानुपपत्तिलक्षणेनासिद्धादिपञ्चहेत्वाभासानां निराकरणम् ? इत्यत आह तथा हीति।
1 द 'पक्षान्तर्भा-'। 2 आ प म मु 'विपक्षव्यावृत्त्यभावात्' 3 मु 'सपक्षसत्वाभावात्।