________________
३. परोक्ष-प्रकाशः
चेति । तत्र पञ्चरूपोपपन्नोऽन्वयव्यतिरेकी । यथा - ' शब्दोऽनित्यो भवितुमर्हति कृतकत्वात्, यद्यत्कृतकं तत्तदनित्यं यथा घटः, यद्यदनित्यं न भवति तत्तत् कृतकं न भवति । यथाऽऽकाशम्, तथा चायं कृतकः, तस्मादनित्य एवेति' । अत्र शब्द 'पक्षीकृत्यानित्यत्वं साध्यते । तत्र कृतकत्वं हेतुस्तस्य पक्षीकृतशब्दधर्मत्वात्पक्षधर्मत्वमस्ति । सपक्षे घटादौ वर्त्तमानत्वाद्विपक्षे गगनादववर्त्तमानत्वादस्वयव्यतिरेकित्वम् ।
ब
$ ४३. पक्षसपक्षवृत्तिर्विपक्षरहितः केवलान्वयी । यथा- 'अदृष्टादयः कस्यचित्प्रत्यक्षा अनुमेयत्वात्, यद्यदनुमेयं तत्तत्कस्य'चित्प्रत्यक्षम्, यथाऽग्न्यादि' इति । अत्रादृष्टादयः पक्षः, कस्यचित् प्रत्यक्षत्वं साध्यम्, अनुमेयत्वं हेतुः श्रग्न्याद्यन्वयदृष्टान्तः । अनुमेयत्वं हेतुः पक्षीकृतेऽदृष्टादौ वर्त्तते, सपक्षभूतेऽग्न्यादौ वर्त्तते । ततः पक्षधर्मत्वं सपक्षे सत्त्वं चास्ति । विपक्ष: पुनरत्र नास्त्येव, सर्वस्यापि पक्ष सपक्षान्तर्भावात्तस्माद्विपक्षाद्व्यावृत्तिर्नास्त्येव । 'व्यावृत्तेरवधिसापेक्षत्वात्, अवधिभूतस्य च विपक्षस्याभावात् । शेषमन्वयव्यतिरेकिवद् द्रष्टव्यम् I
१ धर्मिणं कृत्वा । २ व्यावृत्तिर्ह्य वधिमपेक्ष्य भवति, अवधिश्च विपक्ष:, स चात्र नास्त्येव । ततोऽवधिभूतविपक्षाभावान्न विपक्षव्यावृत्तिः केवलान्वयिनि ताविति भावः ।
1 द आ ' यत्कृतकं तदनित्यं यथा घटः यदनित्यं न भवति तत्कृतकं न भवति' इति पाठः । 2 द 'पक्षान्तर्भावा- ' पाठः ।