SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ न्याय-दीपिका हि नित्यधर्मरहितत्वादिति हेतु: प्रतिसाधनेन प्रतिरुद्धः1 । किं तत्प्रतिसाधनम् इति चेत् ; नित्यः शब्दोऽनित्यधर्मरहितत्वादिति नित्यत्वसाधनम् । तथा चासत्प्रतिपक्षत्वाभावात्प्रकरणसमत्वं नित्यधर्मरहितत्वादिति हेतोः। तस्मात्पाञ्चरूप्यं हेतोलक्षणमन्यतमाभावे हेत्वाभासत्वप्रसङ्गादिति सूक्तम्। 'हेतुलक्षणरहिता हेतुवदवभासमाना: खलु हेत्वाभासाः । पञ्चरूपान्यतमशून्यत्वाद्धेतुलक्षणरहितत्वम्, कतिपयरूपसम्पत्तेर्हेतुवदवभासमानत्वम्' [ ] इति वचनात् । ४१. तदेतदपि नैयायिकाभिमतमनुपपन्नम् ,कृत्तिकोदयस्य पक्षधर्मरहितस्यापि शकटोदयं प्रति हेतुत्वदर्शनात्पाञ्चरूप्यस्याव्याप्तेः। ६४२. 'किञ्च, केवलान्वयिकेवलव्यतिरेकिणोर्हेत्वोः पाञ्चरूप्याभावेऽपि गमकत्वं तैरेवाङ्गीक्रियते । तथा हि-ते मन्यन्ते "त्रिविधो हेतुः-अन्वयव्यतिरेकी, केवलान्वयी, केवलव्यतिरेकी १ 'अहेतवो हेतुवदवभासमानाः हेत्वाभासा:-न्यायकलि० पृ० १४ । २ त्रैरूप्यवत्पाञ्चरूप्यमपि। ३ नैयायिकमतानुसारेणैव पुनरव्याप्ति दर्शयति किञ्चेति । ४ 'अन्वयी, व्यतिरेकी, अन्वयव्यतिरेकी चेति । तत्रान्वयव्यतिरेकी विवक्षिततज्जातीयोपपत्तौ विपक्षावृत्तिः, यथा-अनित्यः शब्दः सामान्यविशेषवत्त्वे सत्यस्मदादिबाह्यकरणप्रत्यक्षत्वाद् धटवदिति । अन्वयी विवक्षिततज्जातीयवृत्तित्वे सति विपक्षहीनो, यथा सर्वानित्यत्ववादिनामनित्यः शब्दः कृतकत्वादिति । अस्य हि विपक्षो नास्ति । व्यतिरेकी विवक्षितव्यापकत्वे सति सपक्षाभावे सति विपक्षावृत्तिः, यथा नेदं जीवच्छरीरं निरात्मकमप्राणादिमत्त्वप्रसङ्गादिति-न्यायवा० पृ० ४६ । 1 द 'विरुद्धः पाठः ।
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy