________________
३. परोक्ष-प्रकाशः हि हेतु:1 साध्यभूतमनित्यत्वं व्यभिचरति, गगनादौ विपक्षे नित्यत्वेनापि सह वृत्तेः। ततो विपक्षाद्वयावृत्त्यभावादनैकान्तिक:21 'बाधितविषयः कालात्ययापदिष्टः । यथा-'अग्निरनुष्ण: पदार्थत्वात्' इति । अत्र हि पदार्थत्वं हेतु: स्वविषयेऽनुष्णत्वे उष्णत्वग्राहकेण प्रत्यक्षेण बाधिते प्रवर्त्तमानोऽबाधितविषयत्वाभावात्कालात्ययापदिष्टः । प्रतिसाधनप्रतिरुद्धो3 हेतुः प्रकरणसमः, "यथा—'अनित्यः शब्दो नित्यधर्मरहितत्वात् इति। अत्र
१ अनित्यत्वाभाववति । २ प्रत्यक्षादिना बाधितो विषयः साध्यं यस्य हेतोः स बाधितविषयः कालात्ययापदिष्टो नाम । ३ एतन्नामकश्चतुर्थों हेत्वाभासः। तथा चोक्तम्-'प्रत्यक्षागमविरुद्धः कालात्ययापदिष्टः । अबाधितपरपक्षपरिग्रहो हेतुप्रयोगकालः तमतीत्यासावुपदिष्ट इति । अनुष्णो. ऽग्निः कृतकत्वात् घटवदिति प्रत्यक्षविरुद्धः । ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् क्षीरवत् इत्यागमविरुद्धः ।'-न्यायकलि० पृ० १५ । ४ कालात्ययापदिष्टमुदाहरति यथेति । ५ विरोधिसाधनं प्रतिसाधनम्, तेन साध्यप्रत्यायनं प्रति रुद्धोऽसमर्थीकृतो यो हेतु: स प्रकरणसमो नाम पञ्चमो हेत्वाभासः । ६ जयन्तभट्टस्तु प्रकरणसममित्थं लक्षयति—'विशेषाग्रहणात् प्रकरणे पक्षे संशयो भवति–नित्यः शब्दोऽनित्यः शब्दो वेति । तदेव विशेषाग्रहणं भ्रान्त्या हेतुत्वेन प्रयोज्यमानं प्रकरणसमो हेत्वाभासो भवति । अनित्यः शब्दो नित्यधर्मानुपलब्धेः घटवदिति, नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकाशवदिति । न चानयोरन्यतरदपि साधनं बलीयः यदितरस्य बाधकमुच्येत ।'-न्यायकलि० पृ० १५। ७ असत्प्रतिपक्षापरनामप्रकरणसममुदाहरणद्वारा दर्शयति यथेति ।
1 द पा प्रत्योः 'हेतु:' नास्ति । 2 द 'कम्' । 3 द 'विरुद्धो' पाठः ।