________________
न्याय-दीपिका
वात् । तथा च पाञ्चरूप्य1 सम्पत्तिरेव धूमवत्त्वस्य 2स्वसाध्य. साधकत्वे निबन्धनम् । एवमेव सर्वेषामपि सद्धेतूनां रूपपञ्चक सम्पत्तिरूहनीया।
४०. तदन्यतमविरहादेव खलु पञ्च हेत्वाभासा प्रसिद्धविरुद्धानैकान्तिक-कालात्ययापदिष्टप्रकरणसमाख्याः सम्पन्नाः। तथा हि-अनिश्चितपक्षवृत्तिरसिद्धः, यथा-'अनित्यः शब्दश्चाक्षष. त्वात् । अत्र हि चाक्षुषत्वं हेतु: पक्षीकृते शब्दे न वर्तते, श्रावण त्वाच्छब्दस्य । तथा च पक्षधर्मविरहादसिद्धत्वं चाक्षुषत्वस्य । साध्यविपरीतव्याप्तो विरुद्धः, यथा—'नित्यः शब्दः कृतकत्वात' इति । कृतकत्वं हेतुः साध्यभूतनित्यत्वविपरीतेनानित्यत्वेन व्या. प्तः3, सपक्षे4 गगनादावविद्यमानो विरुद्धः । “सव्यभिचारोऽनैकान्तिकः, यथा-अनित्यः शब्दः प्रमेयत्वात्' इति । प्रमेयत्व प्रतिपक्षो यस्य सोऽसत्प्रतिपक्षस्तस्य भावस्तत्त्वम्, प्रतिद्वन्द्विहेतुरहितत्वमित्यर्थः । न ह्यत्र 'पर्वतो नाग्निमान् अमुकत्वात्' इत्येवंभूतमग्निरहितत्वसाधक किञ्चित् समबलप्रमाणं वर्तते । ततोऽसत्प्रतिपक्षत्वं धूमवत्त्वस्य ।
१ उक्तमेवोपसंहरति तथा चेति । २ स्वपदेन धूमवत्त्वं तस्य साध्य वह्निस्तत्प्रसाधने । ३ कृतकत्वादीनाम् । ४ विचारणीया । ५ पक्षधर्मत्वादीनामेकैकापायात् । ६ तानेवोपदर्शयति । ७ न निश्चिता पक्षे वृत्तिर्यस्य सोऽसिद्धः । ८ 'साध्याद् (नित्यत्वादेः) विपरीतं यत् (अनित्यत्वादि) तेन सह व्याप्तो व्याप्तिमान् हेतुः स विरुद्धो हेत्वाभासः 1 6 नियमेन वर्तमानः १० साध्यासत्त्वे हेतुसत्त्वं व्यभिचारस्तेन सहितः सव्यभिचारः । साध्या भाववद्वृत्तिहेतुर्व्यभिचारीत्यर्थः ।
1 द पञ्चरूप' पाठः। 2 ा प म मु 'स्व' नास्ति । 3 मु 'व्याप्तत्वात पाठः । 4 मु 'सपक्षे च' पाठः । 5 मु 'वविद्यमानत्वात्' पाठः ।