________________
३. परोक्ष- प्रकाशः
पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षाद्वयावृत्तिः प्रबाधितविषयत्वम्, श्रसत्प्रतिपक्षत्वं चेति पञ्च रूपाणि । तत्राद्यानि त्रीण्युक्तलक्षणानि । साध्यविपरीतनिश्चायकप्रबल प्रमाणरहितत्वमबाधितविषयत्वम् । तादृशसमबलप्रमाणशून्यत्वमसत्प्रतिपक्षत्वम् । तद्यथा - पर्वतोऽयमग्निमान् धूमवत्त्वात्, यो यो धूमवानसा 1 वसावग्निमान्, यथा महानसः, यो योऽग्निमान्न भवति स धूमवान्न भवति, यथा महाह्रदः, तथा चायं धूमवांस्तस्मादग्निमानेवेति । अत्र ह्यग्निमत्त्वेन साध्यधर्मेण विशिष्टः पर्वताख्यो धर्मी पक्षः, धूमवत्त्वं हेतुः । तस्य च तावत्पक्षधर्मत्वमस्ति पक्षीकृते पर्वते वर्त्तमानत्त्वात् । सपक्षे सत्त्वमप्यस्ति सपक्षे महानसे वर्त्तमानत्वात् । 'ननु केषुचित्सपक्षेषु धूमवत्त्वं न वर्त्तते श्रङ्गारावस्थापन्नाग्निमत्सु प्रदेशेषु धूमाभावात् इति चेत्; न; सपक्षैकदेशवृत्तेरपि हेतुसपक्षे सर्वत्रैकदेशे वा वृत्तिर्हेतोः सपक्षे सत्त्वमित्युक्तत्वात् । विपक्षाद्वयावृत्तिरप्यस्ति, धूमवत्त्वस्य सर्वमहाहृदादिविपक्ष 2व्या - वृत्तेः । 'अबाधितविषयत्वमप्यस्ति, धूमवत्त्वस्य हेतोर्यो विषयोऽग्निमत्त्वाख्यं साध्यं तस्य प्रत्यक्षादि प्रमाणाबाधितत्वात् । 'असत्प्रतिपक्षत्वमप्यस्ति, अग्निरहितत्वसाधकसमबलप्रमाणासम्भ
}
त्वात्,
,
८५
१ तेषु । २ पक्षधर्मत्वादीनि । ३ वह्नयनुमाने । ४ धूमवत्त्वस्य । ५ योगं प्रति परः शङ्कते नन्विति । ६ घूमवत्त्वे पक्षधर्मत्वादित्रयं समर्थ्यावाघितविषयत्वमसत्प्रतिपक्षत्वं चापि शेषरूपद्वयं समर्थयति प्रकरणकारोबाधितेत्यादिना । ७ आदिपदादनुमानागमादिग्रहणम् । न विद्यते
८
1 म मु प्रतिषु स स' इति पाठः । 2 श्रा म मु 'विपक्षाद्वया' इति पाठः ।