________________
८४
न्याय-दीपिका व्यावृत्तत्वं हेतोविपक्षाद् व्यावृत्तिः । तानीमानि त्रीणि रूपाणि मिलितानि हेतोर्लक्षणम् । अन्यतमाभावे हेतोराभासत्वं स्यादिति ।
३८. तदसङ्गतम् ; कृत्तिकोदयादेहतोरपक्षधर्मस्य शकटोदयादिसाध्यगमकत्वदर्शनात् । तथा हि-शकटं मुहूर्तान्ते उदेष्यति कृत्तिकोदयादिति । अत्र हि-शकटं धर्मी1, मुहूर्तान्तोदयः? साध्यः, कृत्तिकोदयो हेतुः । न हि कृत्तिकोदयो हेतुः पक्षीकृते शकटे वर्त्तते, अतो न पक्षधर्मः । तथाप्यन्थानुपपत्तिबलाच्छकटोदयाख्यं साध्यं गमयत्येव । तस्माद् बौद्धाभिमतं हेतोर्लक्षणमव्याप्तम् । _ [नैयायिकाभिमतपाञ्चरूप्यहेतुलक्षणस्य निरास:] ३६. नैयायिकास्तु पाञ्चरूप्यं हेतोर्लक्षणमाचक्षते । तथा हि
१ विपक्षावृत्तित्त्वं विपक्षाद् व्यावृत्तिः। २ प्रोक्तरूपत्रयाणामेकैकापाये। ३ तन्नामको हेत्वाभासः स्यादिति भावः । तथा च पक्षधर्मत्वाभावेऽसिद्धत्वम्, सपक्षसत्त्वविरहे विरुद्धत्वम्, विपक्षाद्वयावृत्त्यभावे चानैकान्तिकत्वमिति । ४ ग्रन्थकारः समाधत्ते तदसङ्गतमिति । ५ पक्षेऽवर्तमानस्य । ६ पक्षधर्मत्वाऽभावेऽपि । ७ किञ्च, 'उपरि वृष्टिरभूत्, अधोपूरान्यथानुपपत्तेः' इत्यादावपि पक्षधर्मत्वं नास्ति तथापि गमकत्वं सर्वैरभ्युपगम्यते, अन्यथानुपपत्तिसद्भावात् । अतः सैव हेतोः प्रधानं लक्षणमस्तु ? किं - रूप्येण । ८ अव्याप्तिदोषदूषितम् । अपि च, 'बुद्धोऽसर्वज्ञो वक्तृत्वादे रथ्यापुरुषवत्' इत्यत्र पक्षधर्मत्वादिरूपत्रयसद्भावेनातिव्याप्तम् ।
1 मु 'शकट: पक्षः पाठः । 2 म मु 'मुहूर्तान्ते उदयः' पाठः । ।