________________
३. परोक्ष-प्रकाशः [बौद्धाभिमतत्ररूप्यहेतुलक्षणस्य निरासः] ३७. इत्थमन्यथानुपपत्त्येकलक्षणो हेतुरनुमितिप्रयोजक' इति प्रथितेऽप्याहते1 मते तदेतदवितान्येऽन्यथाऽप्याहुः । तत्र सावत्ताथागताः ‘पक्षधर्मत्वादित्रितयलक्षणा2ल्लिङ्गादनुमानोत्थातम' इति वर्णयन्ति । तथा हि-पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षाद्वयावृत्तिरिति हेतोस्त्रीणि रूपाणि । तत्र साध्यधर्मविशिष्टो धर्मी पक्षः, यथा धूमध्वजानुमाने पर्वतः, तस्मिन् व्याप्य वर्त्तमानत्वं हेतोः पक्षधर्मत्वम् । साध्यसजातोयधर्मा धर्मी सपक्षः, यथा तत्रैव" महानसः,तस्मिन् सर्वत्रैकदेशे वा वर्तमानत्वं हेतोः सपक्षे सत्त्वम् । साध्यविरुद्धधर्मा धर्मी विपक्षः, यथा तत्रैव ह्रदः3, तस्मात्सर्वस्माद्
१ जनक इत्यर्थः । २ प्रसिद्ध । ३ सौगतादयः । ४ त्रैरूप्यादिकम् । ५ अयमभिप्रायो बौद्धानाम्-नान्यथानुपपत्तिनियमनिश्चयकलक्षणं साधनम्, अपि तु पक्षधर्मत्वादिरूपत्रययुक्तम्, तेनैवासिद्धत्वादिदोषपरिहारात् । उक्तं च।
हेतोस्त्रिष्वपि रूपेषु निर्णयस्तेन वर्णितः । प्रसिद्धविपरीतार्थव्यभिचारिविपक्षतः ॥
प्रमाणवा० १-१६ । 'हेतुस्त्रिरूपः । किं पुनस्त्ररूप्यम् ? पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षे चासत्त्वमिति ।' न्यायप्र० पृ० १। अत्र न्यायबिन्दुटी० पृ० ३१,३३ । बादन्याय० पृ. ६० । तत्त्वसं० पृ. ४०४ इत्याद्यपि दृष्टव्यम् । ६ धूमध्वजो वह्निः, धूमस्य तज्ज्ञापकत्वात् । ७ धूमध्वजानुमाने । ८ ह्रदादिसर्वविपक्षात् ।
1 म मु 'अर्हतमते' पाठः । 2 द प 'लक्षणलिङ्गा' इति पाठः । आम मु 'महाहृदः' इति पाठः ।