________________
८२
न्याय-दीपिका
[वीतरागकथायामधिकावयवप्रयोगस्यौचित्यसमर्थनम्]
३६. वीतरागकथायां तु प्रतिपाद्याशयानुरोधेन' प्रतिज्ञाहेतू द्वाववयवौ, प्रतिज्ञाहेतूदाहरणानि त्रयः, प्रतिज्ञाहेतूदाहरणोपनयाश्चत्वारः, प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि वा1पञ्चेति यथायोग2 प्रयोगपरिपाटी। तदुक्तं कुमारनन्दिभट्टारकैः
"प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः”-[वादन्याय...] इति।
तदेवं प्रतिज्ञादिरूपात्परोपदेशादुत्पन्नं परार्थानुमानम् । तदुक्तम्
परोपदेशसापेक्षं साधनात्साध्यवेदनम् । श्रोतुर्यज्जायते सा हि परार्थानुमितिर्मता ॥[ ] इति।
तथा च स्वार्थ परार्थं चेति द्विविधमनुमानं साध्याविनाभावनिश्चयैकलक्षणाद्धेतोरुत्पद्यते।
१ प्रतिपाद्याः शिष्यास्तेषामाशयोऽभिप्रायस्तदपेक्षया। २ परार्थानुमानवाक्यावयववचनसमुदायः प्रयोगपरिपाटी । अत्रायं भावः-वीतरागकथायामवयवप्रयोगस्य न कश्चिन्नियमः, तत्र यावद्भिः प्रयोगः प्रतिपाद्यो बोधनीयो भवति तावन्तस्ते प्रयोक्तव्याः। दृश्यन्ते खलु केचिद् द्वाभ्यामवयवाभ्यां प्रकृतार्थ प्रतिपद्यन्ते, केचन त्रिभिरवयवैः, अपरे चतुभिरवयवैः, अन्ये पञ्चभिरवयवैः, अत उक्तं 'प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः' इति । अत एव च परानुग्रहप्रवृत्तः शास्त्रकारैः प्रतिपाद्यावबोधनदृष्टिभिस्तथैव प्ररूपणात् । व्युत्पन्नप्रज्ञानां तु न तथाऽनियमः, तेषां कृते तु प्रतिज्ञाहेतुरूपावयवद्वयस्यैव पर्याप्तत्वादस्ति तादृनियमः। ३ ज्ञानम् । ४ साध्यज्ञानम् ।
1 द 'वा' नास्ति । 2 म मु 'यथायोग्यं' पाठः ।