________________
३. परोक्ष-प्रकाशः हेत्वोयमेवानुमानस्य परार्थानुमानस्याङ्गम् । वाद इति शेषः । एवकारेणावधारणपरेण नोदाहरणादिकमिति सूचितं' भवति । व्युत्पन्नस्यैव हि वादाधिकारः, प्रतिज्ञाहेतुप्रयोग1मात्रेणैवोदाहरणादिप्रतिपाद्यस्यार्थस्य गम्यमानस्य व्युत्पन्नेन ज्ञातुं शक्यत्वात् । गम्यमानस्याऽप्यभिधाने पौनरुक्त्यप्रसङ्गादिति2 ।
३५. स्यादेतत्, प्रतिज्ञाप्रयोगेऽपि पौनरुक्त्यमेव, तदभिधयस्य पक्षस्यापि प्रस्तावादिना गम्यमानत्वात् । तथा च लिङ्गवचनलक्षणो हेतुरेक एव वादे प्रयोक्तव्य' इति वदन् बौद्धपशुरात्मनो "दुर्विदग्धत्व4 मुद्घोषयति"। हेतुमात्रप्रयोगे व्युत्पन्नस्यापि साध्यसन्देहानिवृत्तेः । तस्मादवश्यं प्रतिज्ञा प्रयोक्तव्या। तदुक्तम्-“साध्यसन्देहापनोदार्थ गम्यमानस्यापि पक्षस्य वचनम्" [परीक्षा ३-३४] इति । तदेवं वादापेक्षया परार्थानुमानस्य प्रतिज्ञाहेतुरूपमवयवद्वयमेव, न न्यूनं न5 चाधिकमिति स्थितम् । "प्रपञ्चः पुनरवयवविचारस्य पत्रपरीक्षायामीक्षणीयः१६ । ____ १ इतरव्यवच्छेदकेन । २ ज्ञापितम् । ३ वादकरणसमर्थस्यैव वक्तुः । ४ वचने । ५ पुनर्वचनं पौनरुक्त्यम् । ६ सौगतः शङ्कते । ७ प्रतिज्ञायाः प्रतिपाद्यस्य । ८ प्रकरणव्याप्तिप्रदर्शनादिना। ६ प्रतिज्ञामन्तरेण केवलस्य हेतोरेव प्रयोगः करणीयः, 'हेतुरेव हि केवलः' इति धर्मकीतिवचनात् । १० जाड्यम् ११ प्रकटयति । १२ साध्यस्य सन्देहो न निवर्त्तते । १३ साध्यसंशयनिवृत्त्यर्थम् । १४ विजिगीषुकथामाश्रित्य । १५ विस्तरः । १६ दृष्टव्यः ।
1 द प प्रत्योः 'प्रतिज्ञाहेतुमात्रे' इति पाठः । 2 मु 'इति' नास्ति । 3 द 'वचन'नास्ति । 4 प मु'दुर्विदग्धता' पाठः । 5 'नाधिक'इति मु प्रतिपाठः ।