________________
न्याय - दीपिका
पर्यन्तं परस्परं प्रवर्त्तमानो वाग्व्यापारो वीतरागकथा' । तत्र विजगीषुकथा वाद इति चोच्यते' । 'केचिद्वीतरागकथा वाद इति कथयन्ति तत्पारिभाषिकमेव । न हि लोके गुरुशिष्यादिवाग्व्यापारे वादव्यवहारः, विजिगीषुवाग्व्यवहार एव वादत्वप्रसिद्धेः 1 । यथा स्वामिसमन्तभद्राचार्यैः सर्वे सर्वथैकान्तवादिनो वादे जिता इति । तस्मिंश्च वादे परार्थानुमानवाक्यस्य प्रतिज्ञा हेतुरित्यवयवद्वयमेवोपकारकम्, नोदाहरणादिकम् । तद्यथा-लिंगवचनात्मकेन हेतुना तावदवश्यं भवितव्यम्, लिङ्गज्ञानाभावेऽनुमितेरेवानुदयात् । पक्षवचनरूपया प्रतिज्ञयाऽपि भवितव्यम्, अन्यथाऽभिमतसाध्यनिश्चयाभावे साध्यसन्देहवतः श्रोतुरनुमित्यनुदयात् । तदुक्तम् -"एतद्द्वयमेवानुमानाङ्गम्"" [परीक्षा ३ - ३७] इति । श्रयमर्थः - एतयोः प्रतिज्ञा
८०
१ जयपराजयाभिप्रायरहिता तत्त्वजिज्ञासया क्रियमाणा तत्वचर्चा वीतरागकथा इति भावः । २ उभयोर्मध्ये । ३ यथोक्तम्
प्रत्यनीकव्यवच्छेदप्रकारेणैव सिद्धये ।
वचनं साधनादीनां वादः सोऽयं जिगीषतोः || न्यायवि० ०का० ३८२ । ४ नैयायिकाः - 'गुर्वादिभिः सह वादः X X X गुर्वादिभिः सह वादोपदेशात्, यस्मादयं तत्त्ववुभुत्सुर्गुर्वादिभिः सह त्रिविधं (ग्रनधिगततत्त्वावबोधम्, संशयनिवृत्तिम् ग्रध्यवसिताभ्यनुज्ञानम्) फलमाकाङ्क्षन् वादं करोति ।'- - न्यायवा० पृ० १४९ । यत्र वीतरागो वीतरागेणैव सह तत्त्वनिर्णयार्थं साधनोपालम्भौ करोति सा वीतरागकथा वादसंज्ञयोच्यते ।' — न्यायसार पृ० १५ । ५ कथनमात्रम्, न तु वास्तविकम् । ६ प्रतिज्ञाया अभावे । ७ 'एतद्द्वयमेवानुमानाङ्ग नोदाहरणम्' इत्युपलब्धसूत्रपाठः । 1 द 'सिद्धेः' पाठः । 2 द 'सर्वे' पाठो नास्ति ।