SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ३. परोक्ष-प्रकाशः चायं धूमवानिति । हेतुपूर्वकं पुन:1 पक्षवचनं निगमनम्', तस्मादग्निमानेवेति । एते पञ्चावयवाः परार्थानुमानप्रयोगस्य'। तदन्यतमाभावे वीतरागकथायां विजिगीषुकथायां च2 नानुमितिरुदेतीति नैयायिकानामभिमति:3 । ३३. तदेतदविमृश्याभिमननम् ; वीतरागकथायां4 प्रतिपाद्याशयानुरोधेनावयवाधिक्येऽपि विजिगीषुकथायां प्रतिज्ञाहेतुरूपावयवद्वयेनैव पर्याप्तेः किमप्रयोजनैरन्यैरवयवैः । [विजिगीषुकथायां प्रतिज्ञाहेतुरूपावयवद्वयस्यैव सार्थक्यमिति] $३४. तथा हि-वादिप्रतिवादिनोः स्वमतस्थापनार्थ जयपराजयपर्यन्तं परस्परं प्रवर्त्तमानो वाग्व्यापारो विजिगीषुकथा । गुरुशिष्याणां विशिष्टविदुषां वा5 रागद्वेषरहितानां तत्त्वनिर्णय १ द्विविवे हेतौ द्विविधे च दृष्टान्ते द्विविध चोपनये तुल्यमेव हेत्वपदेशेन पुनः साधोपसंहरणान्निगमनम्' -न्यायकलि० पृ० १२ । २ ते इमे प्रतिज्ञादयो निगमनान्ता: पञ्चावयवाः स्वप्रतिपत्तिवत्परप्रतिपत्तिमुत्पादयितुमिच्छता यथानिर्दिष्टक्रमकाः प्रयोक्तव्याः । एतदेव साधनवाक्यं परार्थानुमानमाचक्षते ।' –न्यायकलि० पृ० १२ । ३ प्रतिज्ञादीनामेकतमस्याऽप्यभावे । ४ 'बादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः कथा । सा द्विविधा-वीतरागकथा विजिगीषुकथा चेति । -न्यायसार पृ० १५ । ५ वचनप्रवृत्तिः । 1 मुद्रितप्रतौ 'पुनः' नास्ति । 2 ा म मु प्रतिषु 'वा' पाठः । 3 म मु प्रतिषु 'मतम्'। 4 द प प्रत्योः 'वीतरागकथायां तु' इति पाठः । 5 द 'वा' पाठो नास्ति।
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy