________________
३. परोक्ष-प्रकाशः चायं धूमवानिति । हेतुपूर्वकं पुन:1 पक्षवचनं निगमनम्', तस्मादग्निमानेवेति । एते पञ्चावयवाः परार्थानुमानप्रयोगस्य । तदन्यतमाभावे वीतरागकथायां विजिगीषुकथायां च2 नानुमितिरुदेतीति नैयायिकानामभिमति:3 । ___३३. तदेतदविमृश्याभिमननम् ; वीतरागकथायां4 प्रतिपाद्याशयानुरोधेनावयवाधिक्येऽपि विजिगोषुकथायां प्रतिज्ञाहेतुरूपावयवद्वयेनैव पर्याप्तेः किमप्रयोजनैरन्यैरवयवैः ।
[विजिगीषुकथायां प्रतिज्ञाहेतुरूपावयवद्वयस्यैव सार्थक्यमिति]
३४. तथा हि-वादिप्रतिवादिनोः स्वमतस्थापनार्थ जयपराजयपर्यन्तं परस्परं प्रवर्त्तमानो वाग्व्यापारो विजिगीषुकथा। गुरुशिष्याणां विशिष्टविदुषां वा5 रागद्वेषरहितानां तत्त्वनिर्णय
१ द्विविवे हेतौ द्विविधे च दृष्टान्ते द्विविधे चोपनये तुल्यमेव हेत्वपदेशेन पुनः साधोपसंहरणान्निगमनम्' --न्यायकलि० पृ० १२ । २ ते इमे प्रतिज्ञादयो निगमनान्ताः पञ्चावयवाः स्वप्रतिपत्तिवत्परप्रतिपत्ति मुत्पादयितुमिच्छता यथानिदिष्टक्रमकाः प्रयोक्तव्याः । एतदेव साधनवाक्यं परार्थानुमानमाचक्षते ।' –न्यायकलि० पृ० १२ । ३ प्रतिज्ञादीनामेकतमस्याऽप्यभावे । ४ 'वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः कथा । सा द्विविधा-वीतरागकथा विजिगीषुकथा चेति ।-न्यायसार पृ० १५ । ५ वचनप्रवृत्तिः ।
1 मुद्रितप्रतौ 'पुनः' नास्ति । 2 ा म मु प्रतिषु 'वा' पाठः । 3 म मु प्रतिषु ‘मतम्' । 4 द प प्रत्योः 'वीतरागकथायां तु' इति पाठः । 5 द 'वा' पाठो नास्ति ।