________________
७८
न्याय-दीपिका दाहरन्ति च।। तद्यथा-पक्षवचनं प्रतिज्ञा, यथा-पर्वतोऽयमग्नि मानिति । साधनत्वप्रकाशार्थं2 पञ्चम्यन्तं लिङ्गवचनं हेतुः, यथाधूमवत्त्वादिति। व्याप्तिपूर्वकदृष्टान्तवचनमुदाहरणम्, यथा-यो यो धूमवानसावसावग्निमान्, यथा महानस इति साधर्योदाहरणम् । यो योऽग्निमान्न भवति स स धूमवान्न भवति, यथा महाह्रद इति वैधर्योदाहरणम् । पूर्वत्रोदाहरणभेदे हेतोरन्वयव्याप्तिः प्रदीते, द्वितीये तु व्यतिरेकव्याप्तिः । तद्यथा-अन्वयव्याप्तिप्रदर्शनस्थानमन्वयदृष्टान्तः, व्यतिरेकव्याप्तिप्रदर्शनप्रदेशो व्यतिरेकदृष्टान्तः । एवं दृष्टान्त द्वैविध्यात्तद्ववचनस्योदाहणस्यापि द्वैविध्यं बोध्यम् । अनयोश्चोदाहरणयोरन्यतरप्रयोगेणैव पर्याप्तत्वादितराप्रयोगः। दृष्टान्तापेक्षया पक्षे3 हेतोरुपसंहारवचनमुपनयः:", तथा
१ साधनसद्भावपूर्वकसाध्यसद्भावप्रदर्शनमन्वयव्याप्तिः । २ साध्याभावपूर्वकसाधनाभावप्रदर्शनं व्यतिरेकव्याप्तिः । ३ 'यत्र प्रयोज्यप्रयोजकभावेन साध्यसाधनयोर्घर्मयोरस्तित्वं ख्याप्यते स साधर्म्यदृष्टान्तः । यद्यत् कृतकं तत्तदनित्यं दृष्टम्, यथा घट इति'—न्यायकलि० पृ० ११ । ४ 'यत्र साध्याभावप्रयुक्तो हेत्वभाव: ख्याप्यते स वैधर्म्यदृष्टान्तः । यत्रानित्यत्वं नास्ति तत्र कृतकत्वमपि नास्ति, यथा अाकाश इति' (न्यायकलि० पृ० ११) एतदुभयमधिकृत्य कैश्चिदुक्तम्-'साध्येनानुगमो हेतोः साध्याभावे च नास्तिता इति' (न्यायवात्तिक पृ० १३७) । ५ 'साधर्म्यवैधर्योदाहरणानुसारेण तथेति, न तथेति वा साध्यमिणि हेतोरूपसंहार उपनयः'न्यायकलि० पृ० १२ ।
1 मुद्रितप्रतिषु 'च' पाठो नास्ति । 2 मु म 'प्रकाशनार्थ' । 3 मु ‘पक्षहेतो'।