________________
ওও
३. परोक्ष-प्रकाशः [नैयायिकाभिमतपञ्चावयवानां निरासः] ३२. 'नैयायिकास्तु परार्थानुमानप्रयोगस्य यथोक्ताभ्यां द्वाभ्यामवयवाभ्यां सममुदाहरणमुपनयो निगमनं चेति पञ्चावयवानाहुः । तथा च ते सूत्रयन्ति “प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः” [न्यायसू० १-१-३२] इति । तांश्च ते लक्षणपुरस्सरमु
१ अवयवमान्यतामभिप्रेत्य दार्शनिकानां मतभेदो वर्त्तते । तथा हिनैयायिकास्तावत् मूले प्रदर्शितान् प्रतिज्ञादीन् पञ्चावयवान् प्रतिपेदिरे । नैयायिकैकदेशिनः 'पूर्वोक्ताः पञ्च, जिज्ञासा, संशयः, शक्यप्राप्तिः, प्रयोजनम्, संशयव्युदासः' (न्यायभा० १-१-३२) इति दशावयवान् वाक्ये संचक्षते । मीमांसकाः 'तत्राबाधित इति प्रतिज्ञा, ज्ञातसम्बन्धनियमस्येत्यनेन दृष्टान्तवचनम्, एकदेशर्दशनादिति हेत्वभिधानम्, तदेवं त्र्यवयवसाधनम्' (प्रकरणपजि० पृ० ८३) इत्येतान् त्र्यवयवान् मन्यन्ते । सांख्याः 'पक्षहेतुदृष्टान्ता इति त्र्यवयवं साधनम्' (सांख्य० माठरवृ० का० ५) प्रतिपादयन्ति । बौद्धतार्किकदिग्नागः ‘पक्षहेतुदृष्टान्तवचनैहि प्राश्निकानामप्रतीतोऽर्थः प्रतिपाद्यते XXX एतान्येव त्रयोऽवयवा इत्युच्यन्ते' (न्याय० पृ० १४, १६) इति प्ररूपयति । केचिन्मीमांसकाः प्रतिज्ञाहेतूदाहरणोपनयान् चतुरोऽवयवान् कथयन्ति (प्रमेयर० ३-३६) । धर्मकीर्तिस्तन्मतानुसारिणो बौद्धाश्च हेतुदृष्टान्ताविति द्वाववयवौ (प्रमाणवा० १-२८, वादन्या० पृ० ६१), 'हेतुरेव हि केवलः' (प्रमाणवा० १-२८) इति केवलं हेतुरूपमेकमवयवमपि च निरूपयन्ति । वैशेषिकाश्च 'अवयवाः पुनः प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः' (प्रशस्तपादभा० पृ० ११४) इत्युक्तान् पञ्चावयवान् मेनिरे । स्याद्वादिनो जैनास्स्तु 'एतद्द्वयमेवानुमानाङ्ग नोदाहरणम्' (परीक्षा० ३-३७) इति प्रतिज्ञाहेतुरूपावयवद्वयमेव मन्यन्त इति विवेकः ।