________________
न्याय-दीपिका
[परार्थानुमानप्रयोजकवाक्यस्य प्रतिज्ञा हेतुरूपावयवद्वयस्य प्रतिपादनम् ]
$ ३१. तस्यैतस्य परार्थानुमानस्याङ्गसम्पत्तिः स्वार्थानुमानवत् । परार्थानुमानप्रयोजकस्य च वाक्यस्य । द्वाववयवी - प्रतिज्ञा हेतुश्च । तत्र धर्मं-धर्मिसमुदायरूपस्य पक्षस्य वचनं प्रतिज्ञा । यथा- पर्वतोऽयमग्निमान्' इति । साध्याविनाभावि साधनवचनं हेतुः । यथा-‘धूमवत्त्वान्यथानुपपत्तेः' इति ' तथैव धूमवत्त्वोपपत्तेः ' - इति वा2 । अनयोर्हेतुप्रयोगयोरुक्तिवैचित्र्यमात्रम्' । 'पूर्वत्र धूमवत्त्वान्यथानुपपत्तेरित्ययमर्थः- धूमवत्त्वस्याग्निमत्त्वाभावेऽनुपपत्तेरिति निषेधमुखेन कथनम् । द्वितीये तु धूमवत्त्वोपपत्तेरित्ययमर्थः-प्रग्निमत्वे सत्येव धूमवत्त्वस्योपपत्तेरिति विधिमुखेन प्रतिपादनम् 4 | अर्थस्तु न भिद्यते, 'उभयत्राऽप्यविनाभावि - साधनाभिधानाविशेषात् । ग्रतस्तयोर्हेतु प्रयोगयोरन्यतर " एव वक्तव्यः, उभयप्रयोगे पौनरुक्त्यात् । तथा चोक्तलक्षणा प्रतिज्ञा, एतयोरन्यतरो हेतुप्रयोगश्चेत्यवयवद्वयं परार्थानुमानवाक्यस्येति स्थितिः, व्युत्पन्नस्य श्रोतुस्तावन्मात्रेणैवांनुमित्युदयात् ।
७६
श्रीहेमचन्द्राचार्योऽप्याह - 'यथोक्तसाधनाभिधानजः परार्थम्' 'वचनमुपचारात्' - प्रमाणमी० २,१, १-२ ।
१ केवलं कथनभेदः । २ हेतुप्रयोगे । ३ हेतुप्रयोगे । ४ हेतुप्रयोगद्वयेऽपि । ५ एकतर एव । ६ प्रतिज्ञाहेतुद्वयेनैव ।
1 द प प्रत्योः 'च वाक्यस्य' इति पाठो नास्ति । 2 द प प्रत्योः 'च' पाठः । 3 श्रमु म प्रतिषु 'प्रतिपादनम् इति पाठः । 4 श्रमु म प्रतिषु 'कथनम्' पाठः । 5 'अर्थतस्तु' इति द प्रतिपाठः ।