________________
३. परोक्ष-प्रकाशः
परोपदेशाभावेऽपि साधनात्साध्यबोधनम् । यद्रष्टुर्जायते स्वार्थमनुमानं तदुच्यते ॥[ ] इति ।
[परार्थानुमानस्य निरूपणम्] | २६. परोपदेशमपेक्ष्य यत्साधनात्साध्यविज्ञानं तत्परार्थानुमानम् । प्रतिज्ञा-हेतुरूपपरोपदेशवशात् श्रोतुरुत्पन्नं साधनात् साध्यविज्ञानं परार्थानुमानमित्यर्थः । यथा-पर्वतोऽयमग्निमान् भवितुर्महति धूमवत्त्वान्यथानुपपत्तेरिति' वाक्ये केनचित्प्रयुक्ते तद्वाक्यार्थं पर्यालोचयतः स्मृतव्याप्तिकस्य श्रोतुरनुमानमुपजायते।
६३०. परोपदेशवाक्यमेव परार्थानुमानमिति केचित् ; त एवं प्रष्टव्याः तत् किं मुख्यानुमानम् अथ। 'गौणानुमानम् इति ? न तावन्मुख्यानुमानम्, वाक्यस्याज्ञानरूपत्वात् । गौणानुमानं "तद्वाक्य मिति त्वनुमन्यामहे', 'तत्कारणे "तव्यपदेशोपपत्तेरायु2घु तमित्यादिवत् ।
१ अनुमातुः । २ कोऽसौ परोपदेश इत्याह प्रतिज्ञाहेतुरूपेति । ३ वि. चारयतः । ४ महानसे पूर्वगृहीतव्याप्ति स्मरतः। ५ नैयायिकादयः । ६ औपचारिकानुमानम् । ७ परोपदेशवाक्यम् । ८ वयं जैनाः । ६ परार्थानुमानकारणे परोपदेशवाक्ये । १० परार्थानुमानव्यपदेशघटनात्, तत उपचारादेव परोपदेशवाक्यं परार्थानुमानम् । परमार्थतस्तु तज्जन्यं ज्ञानमेव परार्थानुमानमिति । यदाह श्रीमाणिक्य नन्दी-'परार्थं तु तदर्थपरामशिवचनाज्जातम्'-परीक्षा० ३-५५, तद्वचनमपि तद्धेतुत्वात्'-परीक्षा० ३-५६,
1 म मु 'अथवा' इति पाठः । 2 म मु ‘रायुर्वं घृतं इति पाठः ।