________________
७४
न्याय-दीपिका
सिद्धः, अपि तु प्रतीतिमात्रसिद्ध इति विकल्पसिद्धोऽयं धर्मी। तथा खरविषाणमपि नास्तित्वसिद्धेः प्राग्विकल्पसिद्धम्। 'उभयसिद्धो धर्मी यथा- शब्द: परिणामी कृतकत्वादित्यत्र शब्द: । स हि वर्तमानः प्रत्यक्षगम्यः, भूतो भविष्यंश्च विकल्पगम्यः । स सर्वोऽपि धर्मीति प्रमाण-विकल्पसिद्धो धर्मी । प्रमाणोभयसिद्धयोर्धमिणोः साध्ये कामचारः" । विकल्पसिद्धे तु धर्मिणि सत्तासत्तयोरेव साध्यत्वमिति नियमः । तदुक्तम्-"विकल्पसिद्ध "तस्मिन् सत्तेतरे साध्ये' [परीक्षा ३-२८] इति ।
६२८. तदेवं परोपदेशानपेक्षिणः1 साधनाद् दृश्यमानार्मिनिष्ठतया साध्ये यद्विज्ञानं तत्स्वार्थानुमानमिति स्थितम् । तदुक्तम्
१ सम्भावनामात्रसिद्धः, सम्भावना प्रतीतिविकल्प इत्येकार्थकाः । २ तथा चाहुः श्रीमाणिक्यनन्दिनः-'विकल्पसिद्धे तस्मिन् सत्तेत्तरे साध्ये' 'अस्ति सर्वज्ञो नास्ति खरविषाणम्'–परीक्षा० २-२८,२६ । ३ प्रमाणविकल्पसिद्धः । ४ अत्र शब्दत्वेन निखिलशब्दानां ग्रहणम्, तेषु वर्तमानशब्दाः श्रावणप्रत्यक्षेण गम्याः सन्ति, भूता भविष्यन्तश्च प्रतीतिसिद्धाः सन्ति, अतः शब्दस्योभयसिद्धर्मित्वमिति भावः । ५ अनियमः । ६ सत्ता अस्तित्वम्, असत्ता नास्तित्वम्, ते द्वे एवात्र विकल्पसिद्धे धर्मिणि साध्ये भवतः, 'अस्ति सर्वज्ञः' इत्यादौ सत्ता साध्या, 'नास्ति खरविषाणम्' इत्यादौ चासत्ता साध्या इत्येवं नियम एव, न प्रमाणोभयसिद्धमिवत्कार्मचारस्तत्रेत्यवसेयम् । ७ मिणि । ८ सत्तासत्ते । ६ भवत इति क्रियाध्याहारः । १० एतत्पदप्रयोगात् साधनस्य वर्तमानकालिकत्वं प्रकटितं बोद्धव्यम्, तेन भूतभाविधूमादेर्भूतभाविवयादिसाघ्यं प्रति साधनत्वं निरस्तम् ।
1 'परोपदेशानपेक्षेण' इति प्रा प्रतिपाठः ।