________________
न्याय - दीपिका
मानमित्यर्थः । यथा - पर्वतोऽयमग्निमान् धमवत्त्वादिति । अयं हि स्वार्थानुमानस्य ज्ञानरूपस्यापि शब्देनोल्लेखः । यथा 'अयं घटः इति शब्देन प्रत्यक्षस्य ' । 'पर्वतोऽयमग्निमान् धूमवत्त्वात्' इत्यनेन प्रकारेण प्रमाता जानातीति स्वार्थानुमानस्थितिरित्यवगन्तव्यम् ।।
७२
[स्वार्थानुमानस्याङ्गप्रतिपादनम् ]
$ २४. अस्य च स्वार्थानुमानस्य त्रीण्यङ्गानि - 'धर्मी, साध्यम्, साधनं च । तत्र साधनं 'गमकत्वेनाङ्गम् । साध्यं तु गम्यत्वेन' । धर्मी पुनः साध्यधर्माधारत्वेन । आधारविशेषनिष्ठतया हि साध्यसिद्धिरनुमानप्रयोजनम्, धर्ममात्रस्य तु व्याप्तिनिश्चयकाल एव सिद्धत्वात् 'यत्र तत्र धूमवत्त्वं तत्र तत्राग्निमत्त्वम्' इति ।
२५. अथवा, पक्षी हेतुरित्यङ्गद्वयं स्वार्थानुमानस्य, साध्यधर्मविशिष्टस्य धर्मिणः पक्षत्वात् । तथा च स्वार्थानुमानस्य धर्मसाध्यसाधनभेदात् त्रीण्यङ्गानि पक्षसाधन भेदादङ्गद्वयं वेति सिद्धम्,
१ ननु स्वार्थानुमानस्य ज्ञानरूपत्वात्कथं तस्य 'पर्वतोऽयमग्निमान् धूमवत्त्वात्' इति शब्देनोल्लेख: ? इत्यत श्राह श्रयमिति । अनुमाता येन प्रकारेण स्वार्थानुमानं करोति तत्प्रकारप्रदर्शनार्थमेव ज्ञानरूपस्यापि तस्य शब्दविधयोल्लेखः । भवति हि यथा 'इदं मदीयं पुस्तकम्' इति शब्देन प्रत्यक्षस्याप्युल्लेखः । ततो न कोऽपि दोष इति । २ उल्लेख इति पूर्वेण सम्बन्धः । ३ पक्ष: । ४ ज्ञापकत्वेन । ५ ज्ञाप्यत्वेन । ६ धर्मिणः स्वार्थानुमानाङ्गत्वे युक्ति: । ७ प्रकारान्तरेण स्वार्थानुमानस्याङ्गप्रतिपादनार्थमाह अथवेति ।
1 म मु प्रतिषु स्थितिरवगन्तव्या' इति पाठः । 2 ' अथवा ' इति पाठो मुद्रितप्रतिषु नास्ति ।