________________
३. परोक्ष-प्रकाशः पतिद! । साधनसाध्यद्वयमधिकृत्य' श्लोकवात्तिकं च2
अन्यथानुपपत्त्येकलक्षणं तत्र साधनम् । साध्यं शक्यमभिप्रतमप्रसिद्धमुदाहृतम् ॥
[१-१३-२२१] इति । ६२२. तदेवमविनाभावनिश्चयैकलक्षणात्साधनाच्छक्याभिप्रताप्रसिद्ध रूपस्य साध्यस्य ज्ञानमनुमानमिति सिद्धम् ।
[अनुमानं द्विधा विभज्य स्वार्थानुमानस्य निरूपणम् ]
२३. तदनुमानं द्विविधम्-स्वार्थ परार्थं च। तत्र स्वयमेव 'निश्चितात्साधनात्साध्यज्ञानं स्वार्थानुमानम् । परोपदेशमनपेक्ष्य स्वयमेव निश्चितात्प्राक्तानुभूतव्याप्तिस्मरण सहकृताद्भूमादेः साधनादुत्पन्नं पर्वतादौ धर्मिण्यग्न्यादेः साध्यस्य ज्ञानं स्वार्थानु
१ आश्रित्य । २ तत्त्वार्थश्लोकवात्तिकम । ३ अन्यथानुपपत्तिरविनाभावः, सा एवैका लक्षणं स्वरूपं यस्य तत्तथा साधनम्, न पक्षधर्मत्वादित्रितयलक्षणं पञ्चलक्षणं वा बौद्ध-नैयायिकाभिमतम् । ४ उक्तलक्षणलक्षितम् । ५ प्रत्यक्षादिना ज्ञातात् । ६ प्रतिज्ञादिवाक्यप्रयोगम् । ७ ‘हेतुग्रहणसम्बन्धस्मरणपूर्वकं जायमानं साध्यज्ञानं स्वार्थानुमानम्, यथा गृहीतधूमस्य स्मृतव्याप्तिकस्य ‘पर्वतो वह्निमान्' इति ज्ञानम् । अत्र हेतुग्रहणसम्बन्धस्मरणयोः समुदितयोरेव कारणत्ववसेयम्'-जैनतर्क भा० पृ० १२ । अनुमाता हि पर्वतादौ धूमं दृष्ट्वा महानसादौ गृहीतव्याप्ति स्मृत्वा च 'पर्वतोऽयं वह्निमान्' इत्यनुमिनोति । यत्रेयमनुमितिः परोपदेशमनपेक्ष्य स्वयमेव निश्चितात्साधनाद्भवति तत्स्वार्थानुमानमिति मावः ।
1 'विवेद' इति मु प्रतिपाठः । २ 'च' इति द प्रतौ नास्ति ।