________________
३. परोक्ष-प्रकाशः
[ साधनस्य लक्षणकथनम् ]
६ १६. किं तत्साधनं यद्धेतुकं साध्यज्ञानमनुमानम् ? इति वेत; उच्यते — निश्चितसाध्यान्यथानुपपत्तिकं साधनम् । यस्य 'साध्याभावासम्भवनियमरूपा व्याप्त्यविनाभावाद्यपरपर्याया
साध्यान्यथानुपपत्तिस्तर्काख्येन प्रमाणेन निर्णीता तत्साधनमित्यर्थः । तदुक्तं कुमारनन्दिभट्टारक:
“अन्यथानुपपत्त्येक लक्षणं लिङ्गमङ्गयते" 1[ वादन्याय...] इति । [ साध्यस्य लक्षणकथनम् ]
$ २०. किं तत्साध्यं यदविनाभावः साधनलक्षणम् ? उच्यतेशक्यमभिप्रतमप्रसिद्धं साध्यम् । यत्प्रत्यक्षादिप्रमाणाबाधितत्वेन साधयितुं शक्यम्, वाद्यभिमतत्वेनाभिप्र ेतम्', 'सन्देहाद्याक्रान्तवेनाप्रसिद्धम्, तदेव साध्यम् । अशक्यस्य साध्यत्वे ' वह्ननुष्ण
१ साधनस्य । २ साध्याभावे न भवतीति नियमरूपा । ३ यद्यपि कुमारनन्दिनोऽयं वादन्यायो नेदानीमुपलभ्यते तथापीयं कारिका सहोत्तराद्धेन विद्यानन्दस्वामिना प्रमाणपरीक्षायां 'कुमारनन्दिभट्टारकैः पत्रपरीक्षायां च 'कुमारनन्दिभट्टारकैरपि स्ववादन्याये निगदित्वात्' इति नामोलेखपुरस्सरमुद्धृताऽस्ति । ४ श्रीमाणिक्यनन्दिभिरप्युक्तम् — 'इष्टमबाधितमसिद्धं साध्यम्' – परीक्षा० ३ २० । ५ इष्टम् । ६ अव्युत्पत्तिसंशयविपर्यासविशिष्टोऽर्थः साध्य इति भावः । ' सन्दिग्धविपर्यस्ताव्युत्पन्नानां माध्यत्वं यथा स्यादित्यसिद्धपदम् – परीक्षा० ३ - २१ । ७ बाधितस्य । नं 'वह्निरनुष्णो द्रव्यत्वात्' इत्यादौ वह्नावुष्णस्पर्शग्राहिणा प्रत्यक्षेण वाघितस्यानुष्णत्वादेरपि साध्यत्वं स्यात् ।
-
B
1 'लिङ्गमभ्यत इति मुद्रित प्रतिषु पाठः ।
६६