________________
न्याय-दीपिका
साध्याव्युत्पत्तिनिरासकत्वेनानुमानत्वम्, न तु लिङ्गपरामर्शादे. रिति बुधाः प्रामाणिका' विदुरिति 'वातिकार्थः ।
अनुमायां ज्ञायमानं लिङ्ग तु कारणं न हि । अनागतादिलिङ्गन न स्यादनुमितिस्तदा । यद्यनुमितौ लिङ्ग करणं स्यात्तदाऽनागतेन विनष्टेन वा लिङ्गन (इयं यज्ञशाला वह्निमती भविष्यति, भाविधूमात् । इयं यज्ञशाला वह्निमत्यासीत्, भूतधूमात् [सिद्धान्तमु० टिप्पण] इत्येवंरूपेण) अनुमितिर्न स्यादन, मितिकरणस्य लिङ्गस्य तदानीमभावात्'-सिद्धान्तमुक्तावली ६७; तन्निरस्तम् ; लिङ्गस्य ज्ञायमानस्य करणत्वानभ्युपगमेऽज्ञायमानादपि लिङ्गादनमितिप्रसङ्गात् । किञ्च, वर्तमानत्वेन प्रतीतस्यैव लिङ्गस्यानुमितिहेतुत्वम, न भविष्यत्वेनातीतत्वेन वा भाव्यतीतयोलिङ्गत्वस्यैवाघटनात् । न हि कश्चित्प्रेक्षावान् भाविधूमात्भाविवह्निमतीतधूमादतीतर्वाह्न वाऽनुमिनोति। तस्माज्ज्ञायमानलिङ्गकारणकस्यैव साध्यज्ञानस्यानुमानत्वमिति ध्येयम् ।
१ नैयायिकाद्यभिमतस्य । २ अकलङ्कदेवा न्यायविनिश्चये (का० १७०)। ३ साधनात्साध्यविज्ञानमित्यादितत्त्वार्थश्लोकवात्तिकीयवात्तिकस्यार्थः । वात्तिकलक्षणं तु
'उक्तानुक्तद्विरुक्तानां चिन्ता यत्र प्रसज्यते । तं ग्रन्थं वात्तिकं प्राहुत्तिकज्ञा मनीषिणः ॥
-पराशरोपपुराण अ० १८ । 'उक्तानुक्तद्विरुक्तानां विचारस्य निबन्धनम् । हेतुभिश्च प्रमाणैश्च एतद्वात्तिकलक्षणम् ॥'
'उक्तानुक्तदुरुक्तानां चिन्ताकारि तु वात्तिकम् ।'--हैमकोश। 'वात्तिकं हि सूत्राणामनुपपत्तिचोदना तत्परिहारो विशेषाभिधानं प्रसिद्धम् ।'
-तत्त्वार्थश्लोकवात्तिक पृ० २।