________________
६६
न्याय-दीपिका मिति लक्षणकथनम् । साधनाद्धमादेलिङ्गात्साध्येऽग्न्यादौ लिङ्गि नि यद्विज्ञानं जायते तदनुमानम्, 'तस्यैवाऽग्नाद्यव्युत्पत्तिविच्छित्तिकरणत्वात्। न पुन: साधनज्ञानमनुमानम्, 'तस्य साधनाव्यू त्पत्तिविच्छेदमात्रोपक्षीणत्वेन साध्याज्ञाननिवर्तकत्वायोगात् । "ततो यदुक्तं नैयायिकै:-'लिङ्गपरामर्शोऽनुमानम्' [न्यायवा० १-१-५॥ उद्धृतम्] इत्यनुमानलक्षणम् तद विनीतविलसितमिति निवेदितं भवति । “वयं त्वनुमानप्रमाणस्वरूपलाभे व्याप्तिस्मरणसहकृतो लिङ्गपरामर्शः कारणामिति मन्यामहे, स्मृत्यादि "स्वरूपलाभेऽनुभवादिवत् । तथा हि-धारणाख्योऽनुभवः स्पृतौ हेतुः । तादात्विकानुभव-स्मृती प्रत्यभिज्ञाने। स्मृतिप्रत्यभिज्ञानानुभवाः साध्य
१ साध्यज्ञानस्यैव । २ अग्न्यादेरव्युत्पत्तिरज्ञानं तस्या विच्छित्तिनिरासस्तत्करणत्वात् साध्यज्ञानस्य, अतः साधनाज्जायमानं साध्यज्ञानमेवानुमानमिति भावः । ३ साधनज्ञानस्य । ४ साधनसम्बन्ध्यज्ञाननिराकरणमात्रेणैव कृतार्थत्वेन । ५ यतश्च साधनज्ञानं नानुमानं ततः । ६ 'अपरे तु मन्यन्ते लिङ्गपरामर्शोऽनुमानमिति । वयं तु पश्यामः सर्वमनुमानमनुमितेस्तन्नान्तरी यकत्वात् । प्रधानोपसर्जनताविवक्षायां लिङ्गपरामर्श इति न्याय्यम् । कः पुनरत्र न्यायः ? आनन्तर्यप्रतिपत्तिः । यस्माल्लिङ्गपरामर्शादनन्तरं शेषार्थप्रतिपत्तिरिति । तस्माल्लिङ्गपरामर्शो न्याय्य इति ।'न्यायवा० पृ० ४५ । लिङ्गपरामर्शो लिङ्गज्ञानमित्यर्थः । ७ अविनीतैरविचारिभिविलसितं परिकल्पितमत एव तदयुक्तमिति भावः । ८ जैनाः । ६ लिङ्गज्ञानमनुमानस्योत्पत्तौ कारणम्, न तु स्वयमनुमानमित्यर्थः । १० आदिपदेन प्रत्यभिज्ञादीनां ग्रहणम् ।
__1 'करणं' इति मु प्रतिपाठः ।