________________
३. परोक्ष-प्रकाशः
१६. बौद्धास्तु प्रत्यक्षपृष्ठभावी विकल्पः व्याप्ति गृह्णातीति अत्यन्ते । त एवं पृष्टव्याः -स हि विकल्प: किमप्रमाणमुत प्रमामिति । यद्यप्रमाणम्, कथं नाम तद्गृहीतायां व्याप्तौ समावासः ? अथ प्रमाणम्, कि प्रत्यक्षमथवाऽनुमानम् ? न तावत्प्रत्यक्षम्, अस्पष्टप्रतिभासत्वात् । नाप्यनुमानम्, लिङ्गदर्शनाद्यनपेक्षत्वात् । 'ताभ्यामन्यदेव किञ्चित्प्रमाणमिति चेदागतस्तहि तर्कः । तदेवं तख्यिं प्रमाणं निर्णीतम् ।
[अनुमानस्य निरूपणम्] १७. इदानीमनुमान मनुवर्ण्यते । साधनात्साध्यविज्ञानमनुमानम् । इहानुमानमिति लक्ष्यनिर्देशः, साधनात्साध्यविज्ञानग्रहणम्), प्रकृतापरानुमानकल्पनायामितरेतराश्रयत्वानवस्थाऽवतारात् । प्रागमादेरपि भिन्नविषयत्वेन सुप्रसिद्धत्वान्न ततोऽपि तत्प्रतिपत्तिरिति' प्रमेयर० ३-१८ । श्रीमद्भट्टाकलङ्कदेवरप्युक्तम्
अविकल्पधिया लिङ्ग न किञ्चित् सम्प्रतीयते । नानुमानादसिद्धत्वात्प्रमाणान्तरमाञ्जसम् ॥
लघीय०का० ११ अतः सूष्ठूक्तं ग्रन्थकृता 'अनुमानादिकं तु व्याप्तिग्रहणं प्रत्यसम्भाव्यमेव' इति ।
१ निर्विकल्पकप्रत्यक्षानन्तरं जायमानः । २ प्रामाण्यम् । ३ प्रत्यक्षानुमानाभ्याम् । ४ 'साधनात् साध्यविज्ञानमनुमान .....'-न्यायवि० का० १७०, 'साधनात्साध्यविज्ञानमनुमानम्'–परीक्षामु० ३-१४, 'साधनात् साध्यविज्ञानमनुमानं विदुर्बुधाः' ।—तत्त्वार्थश्लो० १-१३-१२० ।