________________
न्याय-दीपिका
सादौ तावत्प्रथमं धूमाऽग्न्योर्दर्शनमेकं प्रत्यक्षम्, तदनन्तरं भूयो भूयः प्रत्यक्षाणि प्रवर्तन्ते, तानि च प्रत्यक्षाणि न सर्वाणि व्याप्तिविषयीकरणसमर्थानि, अपि तु पूर्वपूर्वानुभूतधूमाग्निस्मरणतत्सजातीयत्वानुसन्धानरूपप्रत्यभिज्ञानसहकृतः कोऽपि' प्रत्यक्षविशेषो व्याप्ति सर्वोपसंहारवतीमपि1 गृह्णाति । तथा च स्मरणप्रत्यभिज्ञानसहकृते प्रत्यक्षविशेषे व्याप्तिविषयीकरणसमर्थे कि तर्काख्येन पृथक्प्रमाणेनेति केचित् ; तेऽपि न्यायमार्गानभिज्ञाः; “सहकारिसहस्रसमवधानेऽप्यविषयप्रवृत्तिन घटत इत्युक्तत्वात् । तस्मात्प्रत्यक्षेण व्याप्तिग्रहणमसञ्जसम् । इदं तु समञ्जसम्स्मरणम्, प्रत्यभिज्ञानम्, भूयोदर्शनरूपं प्रत्यक्षं च मिलित्वा तादृशमेकं ज्ञानं जनयन्ति यद्वयाप्तिग्रहणसमर्थमिति । तर्कश्च स एव । अनुमानादिकं तु व्याप्तिग्रहणं प्रत्यसम्भाव्यमेव ।
१ पुनः पुनः । २ अनिर्दिष्टनामा । ३ नैयायिकादयः । ४ समाधत्ते तेऽपीति । ५ प्रत्यक्षस्य पुरोवत्तिधूमवह्निव्यक्तिविषयत्वेऽपि नापुरोवत्तिसकलधूमवह्निव्यक्तिविषयत्वम्, तासां तदयोग्यत्वात् । सहकारिणामविषये प्रत्यक्षस्य प्रवर्तकत्वाघटनाच्च । ६ न ह्यनुमानादिना व्याप्तिग्रहणं सम्भवति, अन्योन्याश्रयादिदोषात् । अनुमानेन हि व्याप्तिग्रहणं चेतर्हि प्रकृतानुमानेनानुमानान्तरेण वा ? प्रकृतानुमानेन चेदितरेतराश्रयः । तथा हि-सत्यां व्याप्तिप्रतिपत्तावनुमानस्यात्मलाभस्तदात्मलाभे च सति व्याप्तिप्रतिपत्तिरिति । अनुमानान्तरेण व्याप्तिप्रतिपत्तावनुमानान्तरीयव्याप्तिप्रतिपत्तिरप्यनुमानान्तरेणेत्येवमनवस्था स्यात् । ततो नानुमानाद्व्याप्तिग्रहणम् । नाऽप्यागमादेः, तस्य भिन्नविषयत्वात् । यदुक्तम्-'नाऽप्यनुमानेन (व्याप्ति
1 'सर्वोपसंहारवतीमपि' इति पाठो मुद्रितप्रतिषु नास्ति ।