________________
परोक्ष-प्रकाशः
M
१-१३-११५] इति । ऊह इति तर्कस्यैव 'व्यपदेशान्तरम् । स च तर्कस्तां व्याप्ति सकलदेश-कालोपसंहारेण विषयीकरोति ।
६ १६. किमस्योदाहरणम् ? उच्यते-यत्र यत्र धूमवत्त्वं तत्र तत्राग्निमत्त्वमिति । अत्र हि धूमे सति भूयोऽग्न्युपलम्भे अग्न्यभावे च धमानुपलम्भे1 ‘सर्वत्र सर्वदा धूमोऽग्नि न व्यभिचरति" इत्येवं सर्वोपसंहारेणाविनाभाविज्ञानं पश्चादुत्पन्नं तख्यिं प्रत्यक्षादेः पृथगेव । प्रत्यक्षस्य2 सन्निहितदेश एव धूमाग्निसम्बन्धप्रकाशनान्न व्याप्तिप्रकाशकत्वम् । सर्वोपसंहारवती हि व्याप्तिः ।
१७. ननु यद्यपि प्रत्यक्षमात्रं व्याप्तिविषयीकरणे शक्तं न भवति तथापि विशिष्ट प्रत्यक्षं तत्र शक्तमेव । तथा हि-महान
फले साधकतमत्वात्प्रत्यक्षवत् । स्वविषयभूतस्य साध्यसाधनसम्बन्धाज्ञाननिवृत्तिरूपे साक्षात्स्वार्थनिश्चयने फले साधकतमस्तर्कः, परम्परया तु स्वार्थानुमाने हानोपादानोपेक्षाज्ञाने वा प्रसिद्ध एवेति ।'
१ नामान्तरम् । २ सर्वदेशकालावच्छेदेन । ३ अस्मिन्नुल्लेखे । ४ धूमोऽग्न्यभावे न भवति, अपि त्वग्निसद्भाव एव भवति, इति भावः । ५ 'न हि प्रत्यक्षं यावान् कश्चिद्धमः कालान्तरे देशान्तरे च पादकस्यैव कार्य नार्थान्तरस्येतीयतो व्यापारान् कर्तुं समर्थम्, सन्निहितविषयबलोत्पत्तेरविचारकत्वात्' लघी० स्वोपज्ञवि० का० ११, अष्टस० पृ० २८०, प्रमाणप० पृ० ७०, प्रमेयक० ३-१३ । ६ समीपवत्तिनि योग्यदेश एव महानसादौ, न दूरवत्तिनि परोक्षे देशे । ७ नियतधूमाग्न्योः सम्बन्धज्ञापनात् । ८ प्रत्यक्षसामान्यम् । ६ समर्थम् । १० व्याप्तिविषयीकरणे ।
1 'अग्न्यभावे च धूमानुपलम्भे' इति पाठो मुद्रितप्रतिषु नास्ति । 2 'प्रत्यक्षस्य हि' इति म प प्रतिपाठः !