________________
३. परोक्ष-प्रकाशः
६१
प्रत्यभिज्ञानत्वानतिवृत्तेः । अन्यथा गोविलक्षणो महिष इत्यादिविसदृशत्वप्रत्ययस्य, इदमस्माद् दूरमित्यादेश्च प्रत्ययस्य सप्रतियोगिकस्य पृथक् प्रमाणत्वं स्यात् । ततो 14सादृश्यादिप्रत्ययवत् सादृश्यप्रत्ययस्यापि प्रत्यभिज्ञानलक्षणाक्रान्तत्वेन प्रत्यभिज्ञानत्वमेवेति प्रामाणिकपद्धतिः ।
प्रमेयक० ३-१० । उक्तं च
दृश्यमानाद्यदन्यत्र विज्ञानमुपजायते । सादृश्योपाधिवत्तज्जैरुपमानमिति स्मृतम् ॥ तस्माद्यत्स्मर्यते तत्स्यात्सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ प्रत्यक्षेणाऽवबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतः सिद्धरुपमानप्रमाणता ॥
-मी० श्लो० उ० ३६-३८ । इति प्रत्यभिज्ञानस्योपमानरूपतां निरूपयन्ति, 'तदसमीक्षिताभिधानम्, एकत्व-सादृश्यप्रतीत्योः सङ्कलनज्ञानरूपतया प्रत्यभिज्ञानतानतिक्रमात् । 'स एवायम्'इति हि यथा उत्तरपर्यायस्य पूर्वपर्यायेणैकताप्रतीतिः प्रत्यभिज्ञा, तथा सादृश्यप्रतीतिरपि 'अनेन सदृशः' इति (प्रत्यभिज्ञा), अविशेषात्' —प्रमेयक० ३-१० । कथमन्यथा वैलक्षण्यप्रतीतिरपि प्रमाणान्तरं न स्यात्? नैयायिकास्तु 'पागमाहितसंस्कारस्मृत्यपेक्षं सारूप्यज्ञानमुपमानम् । यदा ह्यनेन श्रुतं भवति 'यथा गौरेवं गवयः' इति । प्रसिद्ध गो-गवयसाधर्म्य पुनर्गवा साधर्म्य पश्यतोऽस्य भवत्ययं गवय इति समाख्यासम्बन्धप्रतिपत्तिः' -न्यायवा० १-१-६ । समाख्यासम्बन्धप्रतिपत्तिश्चोपमानमिति प्रतिपाद
1 'वैसदृश्य' द प्रतिपाठः ।