________________
६०
न्याय - दीपिका
रादेरैक्यप्रतीतिजननसामर्थ्यं नास्तीति । अन्यथा लिङ्गदर्शनव्याप्तिस्मरणादिसहकृतं चक्षुरादिकमेव वह्नचादिलिङ्गज्ञानं जनयेदिति नानुमानमपि पृथक् प्रमाणं स्यात् । स्वविषयमात्र एव चरितार्थत्वाच्चक्षुरादिकमिन्द्रियं न लिङ्गिनि प्रवर्तितुं प्रगल्भमिति चेत् प्रकृतेन किमपराद्धम् ? ततः स्थितं प्रत्यभिज्ञानाख्यं पृथक् प्रमाणमस्तीति ।
$ १४. सादृश्यप्रत्यभिज्ञानमुपमानाख्यं पृथक् प्रमाणमिति केचित् कथयन्ति ; तदसत्; स्मृत्यनुभवपूर्वकसङ्कलनज्ञानत्वेन
१ चक्षुरादेरैक्यप्रतीतिजननसामर्थ्य स्वीकरणे । २ ननु चक्षुरादेः स्वविपय एव पुरोदृश्यमाने धूमादौ प्रवृत्तेर्न परोक्षे वह्न्यादौ लिङ्गिनि प्रवर्ततुं सामर्थ्यमस्ति ततोऽनुमानं पृथगेव प्रमाणमिति चेत्; प्रत्यभिज्ञानेऽप्येतत् समानम्, तत्रापि हि इदन्तोलिखित एवार्थे देवदत्तादौ चक्षुरादेः प्रवृत्तिर्न परोक्षे एकत्वे कुमारयुवा वृद्धावस्थाव्यापिनी देवदत्तत्वादौ । तदुक्तम् —
तया ( द्रव्यसंवित्त्या) यावत्स्वतीतेषु पर्यायेष्वस्ति संस्मृतिः । केन तद्वयापिनि द्रव्ये प्रत्यभिज्ञास्य वार्यते ॥
बालकोsहं य एवासं स एव च कुमारकः । युवानो मध्यमो वृद्धोऽधुनाऽस्मीति प्रतीतितः ॥'
- तत्त्वार्थ श्लोकवा० १, १३, ४५-४६ ।
एतदेवाह स्वविषये । ३ समर्थम् । ४ प्रत्यभिज्ञानेन । ५ नैयायिका: मीमांसकाश्च तत्र तावन्मीमांसकाः ननु गोदर्शनाहितसंस्कारस्य ज्ञानस्योपमानरूपत्वान्न प्रत्यभिज्ञानता । सादृश्यविशिष्टो हि विशेषो ( गोलक्षणो धर्मी ) विशेषविशिष्टं वा सादृश्यमुपमानस्यैव प्रमेयम्' –