________________
३. परोक्ष-प्रकाशः त्येकत्वेऽपि 'प्रतोति जनयन्तु, अञ्जनसंस्कृतं चक्षुरिव व्यवहितेऽर्थे । न हि चक्षुषो व्यवहितार्थप्रत्यायन सामर्थमस्ति, अञ्जनसंस्कारवशात्तु तथात्वमुपलब्धम् । तद्वदेव स्मरणादि सहकृतानीन्द्रियाण्येव दशाद्वयव्यापकमेकत्वं प्रत्याययिष्यन्तीति किं 'प्रमाणान्तरकल्पनाप्रयासेनेति । तदप्यसत्; सहकारिसहस्र"समवधानेऽप्यविषयप्रवृत्तेरयोगात् । चक्षुषो हि अञ्जनसंस्कारादिः सहकारी स्वविषये रूपादावेव प्रवर्तको न त्वविषये रसादौ । "अविषयश्च पूर्वोत्तरावस्थाव्यापकमेकत्वमिन्द्रियाणाम् । तस्मातत्प्रत्यायनाय'२ ११प्रमाणान्तरमन्वेषणीयमेव, “सर्वत्रापि विषयविशेषद्वारेण प्रमाणभेदव्यवस्थापनात् ।
१३. "किञ्च, अस्पष्टवेयं तदेवेदमिति प्रतिपत्तिः, तस्मादपि न तस्याः प्रत्यक्षान्तर्भाव इति । अवश्यं चैतदेवं 2विज्ञेयं चक्षु
१ ज्ञानम् । २ अन्तरिते। ३ प्रत्यायनं ज्ञापनम् । ४ व्यवहितार्थप्रत्यायनसामर्थ्यम् । ५ दृष्टम् । ६ चक्षुरिव । ७ आदिपदेन पर्वानुभवस्य परिग्रहः । ८ ज्ञापयिष्यन्ति । ६ प्रमाणान्तरं प्रत्यभिज्ञानाख्यम् । १० मिलितेऽपि । ११ इन्द्रियाणामविषयमेव प्रदर्शयति अविषयश्चेति । १२ एकत्वज्ञापनाय । १३ प्रत्यभिज्ञाननामकम् । १४ सर्वेष्वपि दर्शनेषु, सर्वैरपि वादिभिः । स्व-स्वदर्शने विषयभेदमाश्रित्यैव प्रमाणभेदव्यवस्था कृतेति भावः । १५ युक्त्यन्तरेण प्रत्यभिज्ञानस्य प्रत्यक्षान्तर्भावं निराकरोति किञ्चेति–स एवायमिति हि ज्ञानमस्पष्टमेव, प्रत्यक्षं तु न तथा, तस्य स्पष्टत्वात् । ततोऽपि न तस्य प्रत्यक्षेऽन्तर्भाव इति भावः ।
1 द '\' पाठः । 2 द प 'ज्ञेयं' पाठः ।