________________
न्याय-दीपिका प्रकाशकत्वम्, स्मृतेश्चातीतविवर्त्तद्योतकत्वमिति तावद्वस्तुगति: कथं नाम तयोरतीतवर्त्तमानसङ्कलितैक्य-सादृश्यादिविषयावगाहित्वम्? तस्मादस्ति स्मृत्यनुभवातिरिक्तं तदनन्तरभाविसङ्कलनज्ञानम् । तदेव प्रत्यभिज्ञानम् ।।
११. अपरे त्वेकत्वप्रत्यभिज्ञानमभ्युपगम्यापि तस्य प्रत्यक्षेऽन्तर्भावं कल्पयन्ति । तद्यथा—यदिन्द्रियान्वयव्यतिरेकानविधायि तत्प्रत्यक्षमिति तावत्प्रसिद्धम्, इन्द्रियान्वयव्यतिरेकानुविधायि चेदं प्रत्यभिज्ञानम्, तस्मात्प्रत्यक्षमिति; तन्न ; इन्द्रियाणां वर्तमानदशापरामर्शमात्रोपक्षीणत्वेन वर्तमानातीतदशाव्यापकैक्यावगाहित्वाघटनात् । न ह्यविषयप्रवृत्तिरिन्द्रियाणां युक्तिमती', चक्षुषा रसादेरपि प्रतीतिप्रसङ्गात् ।
१२. ननु सत्यमेतदिन्द्रियाणां वर्तमानदशावगाहित्वमेवेति तथापि तानि सहकारि “समवधानसामर्थ्याद्दशा द्वयव्यापि
१ वैशेषिकादयः । २ यदुक्तम् –'यस्तु भवतामस्य मानसत्वे प्रयासः स वरमिन्द्रियजत्वे एव भवतुxxपश्चाज्जायमानपीन्द्रियार्थसन्निकर्षप्रभवतया प्रत्यक्षं भवत्येवXX विवादाध्यासिता विकल्पाः (प्रत्यभिज्ञानरूपाः) प्रत्यक्षाः अव्यभिचारित्वे सतीन्द्रियार्थसन्निकर्षजत्वात्'-न्यायवा०तात्पर्यटी० पृ० १४३, ‘एवं पूर्वज्ञानविशेषितस्य स्तम्भादेविशेषणमतीतक्षणविषय इति मानसी प्रत्यभिज्ञा'--न्यायमं० पृ० ४६१, 'तेनेन्द्रियार्थसम्बन्धात्प्रागूज़ चापि यत्स्मृतेः । विज्ञानं जायते सर्व प्रत्यक्षमिति गम्यताम् ।।' मी० श्लो० सू० ४ श्लो० २३७। ३ त एव वैशेषिकादयः पुनराशङ्कन्ते नन्विति । ४ समवधानं सन्निपात एकत्र मेलनं इति यावत् । ५ दशाद्वयं पूर्वोत्तरावस्थे व्याप्य वर्तमाने ।