________________
३. परोक्ष-प्रकाशः प्रत्यभिज्ञानम् । एवमन्येऽपि प्रत्यभिज्ञानभेदा यथाप्रतीति स्वयम्प्रेक्ष्याः । अत्र सर्वत्राऽप्यनुभवस्मृतिसापेक्षत्वात्तद्धेतुकत्वम् ।
१०. केचिदाहुः-अनुभवस्मृतिव्यतिरिक्तं प्रत्यभिज्ञानं नास्तीति; तदसत्; अनुभवस्य वर्तमानकालवत्ति विवर्तमात्र
१ तदित्थम्इदमल्पं महद् दूरमासन्न प्रांशु नेति वा । व्यपेक्षातः समक्षेऽर्थे विकल्पः साधनान्तरम् ॥
-लघी० का २१ । 'इदमस्माद् दूरम्' 'वृक्षोऽयमित्यादि'-परीक्षा० ३, ६-१० । अन्यच्च
पयोऽम्बुभेदी हंसः स्यात् षट्पादैर्धमरः स्मृतः । सप्तपर्णैस्तु तत्व विज्ञेयो विषमच्छदः ।। पञ्चवर्णं भवेद्रत्नं मेचकाख्यं पृथुस्तनी । युवतिश्चैकशृंगोऽपि गण्डकः परिकीर्तितः ॥
शरभोऽप्यष्टभिः पादः सिंहश्चारुसटान्वितः । इत्येवमादिशब्दश्रवणात्तथाविधानेव मरालादीनवलोक्य तथा सत्यापयति यदा तदा तत्सङ्कलनमपि प्रत्यभिज्ञानमुक्तम् दर्शनस्मरणकारणत्वाविशेषात् ।' प्रमेयर० ६-१० । २ चिन्तनीयाः । ३ प्रत्यभिज्ञानभेदेषु । ४ बौद्धाः । तेषामयमाशयः- 'ननु पूर्वापरावस्थाविषयं परामर्शज्ञानं कथमेकम् ? विषयभेदात्, परोक्ष्यापरोक्ष्यलक्षणविरुद्धधर्मसंसर्गाच्च । तथा हितदिति परोक्ष मिदमिति साक्षात्कार:'--न्यायवा० तात्पर्यटी० पृ० १४०, 'तस्माद् द्वे एते ज्ञाने-स इति स्मरणम्, अयम् इत्यनुभवः' -न्यायमं० पृ० ४४६ । अत्र बौद्धानां पूर्वपक्षत्वेनोल्लेखः । ननु तदिति स्मरणमिदमिति प्रत्यक्षमिति ज्ञानद्वयमेव, न ताभ्यां विभिन्न प्रत्यभिज्ञानाख्यं वयं प्रतिपद्यमानं प्रमाणान्तरमुपलभामहे'-प्रमेयर० २-२। ५ विवत: पर्यायः ।