________________
न्याय-दीपिका
[प्रत्यभिज्ञानस्य निरूपणम् ] | ८. अनुभवस्मृतिहेतुकं सङ्कलनात्मक ज्ञानं प्रत्यभिज्ञानम् । इदन्तोल्लेखिज्ञानमनुभवः, तत्तोल्लेखिज्ञानं स्मरणम् । तदुभयसमुत्थं पूर्वोत्तरैक्य-सादृश्य-वैलक्षण्यादिविषयं यत्सङ्कलनरूपं ज्ञानं जायते तत्प्रत्यभिज्ञानमिति ज्ञातव्यम् । यथा स एवाऽयं जिनदत्तः, गोसदृशो गवयः', गोविलक्षणो महिष इत्यादि ।
$6. 'अत्र हि पूर्वस्मिन्नुदाहरणे जिनदत्तस्य पूर्वोत्तरदशाद्वयव्यापक मेकत्वं प्रत्यभिज्ञानस्य विषयः । तदिदमेकत्वप्रत्यभिज्ञानम् । द्वितीये" तु पूर्वानुभूतगोप्रतियोगिक गवयनिष्ठ सादृश्यम् । तदिदं सादृश्यप्रत्यभिज्ञानम् । तृतीये तु पुन: प्रागनुभूतगोप्रतियोगिक महिषनिष्ठं वैसादृश्यम् । यदिदं वैसादृश्य
अनुमानप्रामाण्यान्यथानुपपत्तेरिति ।'–प्रमेयर० २-२, प्रमाणमी. १-२-३ । १ सङ्कलनं विवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्यवमर्शनम्, यथा
'रोमशो दन्तुरः श्यामो वामनः पृथुलोचनः ।
यस्तत्र चिपिटघ्राणस्तं चैत्रमवधारयः ॥' । २ इदमेकत्वप्रत्यभिज्ञानस्योदाहरणम् । ३ इदं सादृश्यप्रत्यभिज्ञानस्योदाहरणम् । ४ इदं वैलक्षण्यप्रत्यभिज्ञानस्योदाहरणम् । ५ एषूदाहरणेषु । ६ व्याप्त्या वर्तमानम् । ७ उदाहरणे । ८ गोत्वावच्छिन्नप्रतियोगिताकम् । ६ गवयो वन्यपशुविशेषः, तस्मिन् वर्तमानम्, गवयत्वावच्छिन्नानुयोगिताकमित्यर्थः । अत्रेदं बोध्यम्-यन्निरूपणाधीनं निरूपणं यस्य तत्तत्प्रतियोगि। अथवा यस्य सादृश्यादिकं प्रदर्श्यते स प्रतियोगी, यस्मिश्च प्रदर्श्यते सोऽनुयोगी इति भावः । १० प्रत्यभिज्ञानस्य विषय इति शेषः । ११ अत्रापि प्रत्यभिज्ञानस्य विषय इति सम्बन्धनीयम् ।