________________
३. परोक्ष-प्रकाशः
६. 'यदि चानुभूते प्रवृत्तमित्येतावता स्मरणमप्रमाणं स्यात् तहि अनुमितेऽग्नौ पश्चात्प्रवृत्तं प्रत्यक्षमप्यप्रमाणं स्यात् ।
७. अविसंवादित्वाच्च प्रमाणं स्मृतिः प्रत्यक्षादिवत् । न हि स्मृत्वा निक्षेपादिषु प्रवर्त्तमानस्य विषयविसंवादोऽस्ति । यत्र त्वस्ति विसंवादस्तत्र स्मरणस्याभासत्वं प्रत्यक्षाभासवत् । तदेवं ‘स्मरणाख्यं पृथक् प्रमाणमस्तीति सिद्धम् ।
१ अत्र स्मृतेरप्रामाण्यवादिनो नैयायिकादयः कथयन्ति–'अतीतः पूर्वानुभूत इत्यतीतविषया स्मृतिः, अत एव सा न प्रमाणमर्थपरिच्छेदे पूर्वानुभवपारतन्त्र्यात्' इति कन्दलीकारः, 'न प्रमाणं स्मृतिः पूर्वप्रतिपत्तिव्यपेक्षणात् । स्मृतिहि तदित्युपजायमाना प्राची प्रतीतिमनुरुद्धय माना न स्वातन्त्र्येणार्थं परिच्छिनत्तीति न प्रमाणम्'–प्रकरणपजि० पृ० ४२ । २ 'अनुभूतार्थविषयत्वमात्रेणास्याः प्रामाण्यानभ्युपगमेऽनुमानेनाधिगतेऽग्नौ यत्प्रत्यक्षं तदप्यप्रमाणं स्यात् ।'–प्रमेयक० ३-४, स्याद्वादर० ३-४, 'अनुभूतेनार्थेन सालम्बनत्वोपपत्तेः । अन्यथा प्रत्यक्षस्याप्यनुभूतार्थविषयत्वादप्रामाण्यमनिवार्यं स्यात् । स्वविषयावभासनं स्मरणेऽप्यविशिष्टमिति ।' प्रमेयर० २-२, प्रमाणमी० १-२-३ । ३ 'न च तस्या विसंवादादप्रामाण्यम्, दत्तग्रहादिविलोपापत्तेः ।' प्रमेयर० २-२, ‘सा च प्रमाणम्, अविसंवादकत्वात्, प्रत्यक्षवत् ।—प्रमाणप० पृ० ६६, प्रमाणमी० १-२-३, न चासावप्रमाणम्, संवादकत्वात्, यत्संवादकं तत्प्रमाणं यथा प्रत्यक्षादि, संवादिका च स्मृतिः, तस्मात्प्रमाणम्' -प्रमेयक० ३-४ । ४ भूगर्भादिस्थापितेष्वर्थेषु । ५ जनस्य । ६ विषयाप्राप्तिः । ७ यत्र तु विसंवादः सा स्मृत्याभासा प्रत्यक्षाभासवत् ।'-प्रमाणप० पृ० ६६, स्याद्वादर० ३-४ । पकि ञ्च, स्मृतेरप्रामाण्येऽनुमानवार्ताऽपि दुर्लभा, तया व्याप्तेरविषयीकरणे तदुत्थानायोगादिति । तत इदं वक्तव्यम्-स्मृति: प्रमाणम्,