________________
न्याय-दीपिका ५. नन्वेवं धारणागृहीत एव स्मरणस्योत्पत्तौ 'गृहीतग्राहित्वादप्रामाण्यं प्रसज्यत' इति चेत् ;न'; 'विषयविशेषसद्भावादीहादिवत् । यथा ह्यवग्रहादिगृहीतविषयाणामीहादीनां विषयविशेषसद्भावात्स्वविषयसमारोपव्यवच्छेदकत्वेन" प्रामाण्यं तथा स्मरणस्यापि धारणागृहीतविषयप्रवृत्तावपि प्रामाण्यमेव । धारणाया हीदन्ताऽवच्छिन्नो विषयः, स्मरणस्य तु तत्ताऽवच्छिन्नः । तथा च स्मरणं स्वविषयास्मरणादिसमारोपव्यवच्छेदकत्वात्प्रमाणमेव । तदुक्तं प्रमेयकमलमार्तण्डे –“विस्मरणसंशयविपर्यासलक्षणः समारोपोऽस्ति, तन्निराकरणाच्चास्या: स्मृतेः प्रामाण्यम्” [३-४] इति । वग्रहाद्यनुभवत्रयस्य व्यवच्छेदः, अवग्रहादयो ह्यदृढात्मकाः । धारणा तु दृढात्मिका, अतः सैव स्मृतेः कारणं नावग्रहादयः 'स्मृतिहेतुर्धारणा' इति वचनादिति भावः ।
१ गृहीतस्यैव ग्रहणात् । २ प्रसक्तं भवति । ३ समाधत्ते नेति । ४ विषयभेदस्य विद्यमानत्वात् । तथा हि--'न खलु यथा प्रत्यक्षे विशदाकारतया वस्तुप्रतिभासः तथैव स्मृतौ, तत्र तस्या (तस्य) वैशद्याप्रतीते:'
—प्रमेयक० ३-४ 'किञ्च, स्मृतेः वर्तमानकालावच्छेदेनाधिगतस्यार्थस्यातीतकालावच्छेदेनाधिगतेरपूर्वांशाधिगमोपपत्तेः ।' –स्याद्वादर० ३-४ । अतो न गृहीतग्राहित्वं स्मरणस्येति भावः । ५ स्वेषामीहादीनां विषयो ज्ञेयस्तस्मिन्नुत्पन्नो यः संशयादिलक्षणः समारोपस्तद्व्यवच्छेदकत्वेन तन्निराकारकत्वेन । ६ वर्तमानकालावच्छिन्नः । ७ भूतकालावच्छिन्नः । ८ अत्रेदमनुमानं बोध्यम्-स्मृतिः प्रमाणं समारोपव्यवच्छेदकत्वात्, यदेवं तदेवं यथा प्रत्यक्षम्, समारोपव्यवच्छेदिका च स्मृतिः, तस्मात्प्रमाणमिति ।